SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सारावली । प्रमदापुत्रगृहाणां भागिनमथ यानवाहनानां च । खः गुरुसन्दृष्टः कुरुते भृगुरिष्टचेष्टानाम् ॥ ३५ ॥ स्वल्पसुखं स्वल्पधनं दुःशीलं वर्धकीपतिं चैव । सौरेक्षितस्तु जनयेत् व्याधितदेहं नरं शुक्रः ॥ ३६ ॥ ॥ इति स्वगृहे दृष्टिः ॥ नृपजननीपत्नीनां कृत्यकरं पण्डितं धनिनम् । दिनकरदृष्टः शुक्रो जनयति सुखभागिनं बुधभे ॥ ३७॥ कृष्णनयनं सुकेशं शयनासनयानभागिनं कान्तम् । सुकुमारमिन्दुदृष्टो जनयति शुक्रो नरं सुभगम् ॥ ३८ ॥ कामपरमति च सुभगं युवतिकृते चार्थनाशनं कुरुते । वक्रेक्षितस्तु शुक्रो बुधभवनमुपाश्रितः प्रसवे ॥ ३९ ॥ प्राज्ञं मधुरं धनिनं वाहनपरिवारभागिनं सुभगम् । गणपतिमर्थेशं वा बुधदृष्टो भार्गवो बुधभे ॥ ४० ॥ बुधभवनगतः शुक्रस्त्रिदशगुरुनिरीक्षितः कुरुते । अतिसुखमतीव दीनं प्रतिरूपकरं ज्ञमाचार्यम् ॥ ४१ ॥ दिनकरसुतेन दृष्टो बुधभवनगतोऽतिदुःखिनं शुक्रः । जनयति खलु परिभूतं चपलं द्वेष्यं च मूर्ख च ॥ ४२ ॥ ॥ इति दुधभवने दृष्टिः ॥ कर्मपरां शुद्धाङ्गी नृपतिसुतां रोषणां धनोपेताम् । भार्यां ददाति शुक्रश्चन्द्रगृहे भानुसन्दृष्टः ॥४३॥ मातृसपत्नीजननं कन्यापूर्वग्रजं बहुसुतं च । सुखिनं सुभगं ललितं कुरुते चन्द्रक्षितः शुक्रः ॥४४॥ सुकलाविदमत्याढ्यं स्त्रीहेतोर्दुःखितं सुभगम् । भौमेक्षितस्तु जनयद्वृद्धिकरं बन्धुवर्गस्य ॥ ४५ ॥ पण्डितभार्यापतिकं बन्धुनिमित्तं च दुःखितं नित्यम् । अतिसुखधनिनं प्राज्ञं करोति शशिभे बुधेक्षितः शुक्रः॥४६॥ भृत्यैर्धनैश्च पुत्रैर्वाहनभोगैश्च बान्धवैर्मित्रैः । कुरुते नरमिह युक्तं नरपतिदयितं च गुरुदृष्टः ॥४७॥ १ बन्धकीपतिं. २ परिभोग. ३ गणपतिमथेश्वरं वा. ४ लघुपरिभूतं. ५ अतिरुचिरां शुक्लाङ्गीं. ६ असुखिनमटनं. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy