SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशोऽध्यायः। ९३ स्त्रीनिर्जितं दरिद्रं पतितमरूपं तथैव चपलं च । जनयति सुखैर्विहीनं शशिभे शनिवीक्षितः शुक्रः ॥४८॥ ॥ इति चन्द्रगृहे दृष्टिः ॥ सेयं कन्यादयितं कामात युवतिकारणं धनिनम् । भागिनमथ करभाणां जनयति सिंहे रवीक्षितः शुक्रः ॥४९॥ मातृसपत्नीजननं युवतिकृते दुःखितं विभववन्तम् । सिंहे नानामतिकं करोति चन्द्रेक्षितः शुक्रः ॥ ५० ॥ नृपपुरुषं विख्यातं युवतिकृते वल्लभं धनसमृद्धम् । सुभगं परदाररतं सिंहे वक्रेक्षितः शुक्रः ॥ ५१ ॥ संग्रहनिरतं लुब्धं स्त्रीलोलं पारदारिकं शूरम् । शठमानृतिकं धनिनं सिंहे बुधवीक्षितः शुक्रः ॥ ५२ ॥ वाहनधनभृत्ययुतं बहुदारपरिग्रहं रविक्षेत्रे । कुरुते नरेन्द्रमत्रिणमिन्द्रगुरुनिरीक्षतः शुक्रः ॥ ५३॥ नृपतिं नृपतिप्रतिमं विख्यातं कोशवाहनसमृद्धम् । रण्डापति सुरूपं दुःखयुतं सौरसन्दृष्टः ॥ ५४ ।। ॥ इति सिंहे दृष्टिः ॥ अतिरौद्रमतिं च शूरं गुरुभे प्राज्ञं च धनिनमतिदयितम् । रविणा दृष्टो जनयति विदेशगमनं नरं शुक्रः ॥ ५५ ॥ ख्यातं नरेन्द्रपुरुषं भोगैरशनैः समन्वितं विपुलैः । कुरुते ह्यनुपमसारं गुरुभे चन्द्रक्षितः शुक्रः ॥ ५६ ॥ अधिकद्वेष्यं स्त्रीणां विचित्रसुखदुःखमर्थवन्तं च । कुरुते गोधनमय्यं गुरुमे भौमेक्षितः शुक्रः ॥ ५७ ॥ आभरणभूषणानां भागिनमपि चान्नपानानाम् । बुधदृष्टो भृगुतनयः कुरुते गुरुभेऽर्थवाहनसमृद्धम् ॥ ५८ ॥ गजतुरगगोधनाढ्यं बहुपुत्रकलत्रमतिसुखिनम् । गुरुणा दृष्टो गुरुभे जनयति शुक्रो महाविभवम् ॥ ५९॥ १ युवतिकारणाद्धनिनं. २ समैः. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy