________________
सारावली ।
नित्यं च धनप्रायं सुखिनं भोगान्वितं धनसमृद्धम् । गुरुभवने शनिदृष्टः कुरुते शुक्रो नरं सुभगम् ॥ ६०॥
॥ इति गुरुभे दृष्टिः ॥ स्तिमितं वृषभं स्त्रीणां महाधनं सत्यसौख्यसंपन्नम् । सौरगृहे रविदृष्टः कुरुते शुक्रो नरं शूरम् ॥ ६१॥ ओजस्विनमतिशूरं स्वाट्यं वपुषान्वितं सुभगम् । कुरुते शशिना दृष्टो रविजगृहे भार्गवः कान्तम् ॥ ६२ ।। जायाविनाशकारणमनर्थबहुलं च रोगिणं शुक्रः । कुरुते श्रमाभितप्तं पश्चात्सुखिनं च कुजदृष्टः ।। ६३ ॥ प्राज्ञं धनचयनिरतं निधानरुचिमतिशयेन विद्वांसम् । जनयति बुधेन दृष्टो भृगुतनयः सत्यसौख्यसम्पन्नम् ॥ ६४॥ प्रियवस्त्रमाल्यगन्धं सुकुमारं गीतवादितविधिज्ञम् । जनयति गुरुणा दृष्टो भृगुपुत्रः सत्कलत्रयुतम् ॥ ६५ ॥ सौरगृहे शनिदृष्टः शुक्रो नरवाहनार्थभोगयुतम् । मलिनं श्यामशरीरं सुरुचिरगानं महादेहम् ॥ ६६ ॥
॥ इति सौरगृहे दृष्टिः ॥ इति कल्याणवर्मविरचितायां सारावल्यां शुक्रचारो नामाष्टाविंशोऽध्यायः ।
एकोनत्रिंशोऽध्यायः । व्यसनपरिश्रमतप्तः प्रचण्डशीलः स्वबन्धुपक्षघ्नः । निष्ठुरधृष्टातिवचा विगर्हितो निर्धनः कुवेषश्च ॥१॥ मेषेऽर्कजे सुरोषो जघन्यकर्मा च लब्धदोषोऽपि । प्रियवैरो नैकृतिको नृशंसकोऽसूयकः पापः ॥ २॥ अर्थविहीनः प्रेष्यो न युक्तवाक्यो न सत्यकर्मा च । वृद्धस्त्रीहृदयहरः कुसुहृत् स्त्रीव्यसनसंसक्तः ॥३॥ सौरे वृषभं याते भवति च जातः पराङ्गनाप्रेष्यः ।
नैकृतिकः स्फुटदृष्टो बहुक्रियासङ्गतो मूढः ॥ ४ ॥ १ अतिरूपं. २ प्रपञ्चशीलः.
Aho! Shrutgyanam