________________
, सारावली । बुधभागे बुधदृष्टः शिल्पाचार्य कविं शशी जनयेत् । शुक्रेक्षितो विशालं गेयज्ञं वचनसाराढ्यम् ॥ ७॥ नृपमत्रिणं गुणाढ्यं गुरुणा दृष्टः प्रतिष्ठितं कान्तम् । भौमेक्षितोऽतिचोरं विवादकुशलं नरं रौद्रम् ॥ ८ ॥ शास्त्रार्थकाव्यबुद्धिं प्राज्ञं शिल्पिनमवेक्षितः शशिना । रङ्गचरं विख्यातं जनयति सूर्येक्षितश्चन्द्रः ॥ ९॥ स्वांशे दिनकरदृष्टः शशी कृशतनुमविक्षतशरीरम् । परधनरक्षणनिपुणं लुब्धं नितरां कुजेनापि ॥ १० ॥ सौरेणाकृत्यकरं वधबन्धविवादसन्तप्तम् । शुक्रेण स्त्रीद्वेष्यं जनयेदथवा नपुंसकाकारम् ॥ ११ ॥ नृपमत्रिणं नृपं वा जनयति गुरुणावलोकितश्चन्द्रः । सौम्येनाधर्मरतं निद्राबहुलं च सेततमध्वरतम् ॥ १२ ॥ रविभागे रविदृष्टे सुरोषणः समुपलब्धकीर्तिधनः । पापो निर्दय इन्दौ सौरेण प्राणिनां हन्ता ॥ १३ ॥ भौमेन सुवर्णधनं ख्यातं नृपसत्कृतं प्रचण्डतरम् । गुरुणा दृष्टो जनयति चमूपति वा नरेन्द्रं वा ॥ १४ ॥ शुक्रेण दृष्टमूर्तिः सुतार्थिनं मृतसुतं वाऽपि । सौम्येन दैवचिन्तकमितिहासरतं च निधिभाजम् ॥ १५ ॥ गुरुभागे गुरुदृष्टो विशदं नृपवल्लभं विपुलकीर्तिम् । जनयति शशी सितेन स्त्रीणां भोगैः सुसंयुक्तम् ॥ १६ ॥ बुधदृष्टो हास्यकरं नृपप्रियं नायकं वरूथिन्याः । अस्त्राचार्यं कुरुते कुजेक्षितः सर्वतः ख्यातम् ॥१७॥ दोपैर्विविधैः ख्यातं दिनकरदृष्टो नरं प्रमाणस्थम् । सौरेण वृद्धशीलं बलिभिश्च निराकृतं नीचम् ॥ १८ ॥ सौरांशे शनिदृष्टः कृपणं रोगान्वितं मृतसुतं वा ।
सूर्येणाल्पापत्यं व्याधिग्रस्तं विरूपततुम् ॥ १९ ॥ १ कार्य. २ तर्नु परिक्षयशरीरम्. ३ हरणे. ४ शुक्रेस्त्रीवेषधरं. ५ सतमस्कम्. ६ हृतसुतं. ७ प्रणाश्यं वा.
Aho ! Shrutgyanam