________________
चतुर्विशोऽध्यायः । जनयति बुधेन दृष्टो मीनस्थश्चन्द्रमाः पुरुषम् । भूपतिमतीव सुखिनं वरयुवतिसमावृतं वश्यम् ॥ ८२ ॥ गुरुदृष्टो मीनस्थो ललितं चन्द्रोऽग्रमाण्डलिकम् । अत्याढ्यं सुकुमारं बहुभिः स्त्रीभिवृतं जनयेत् ॥ ८३ ॥ कुरुते शशी सुशीलं रतिमन्तं नृत्यवाद्यगेयरतम् । शुक्रेक्षितो झषस्थो हृदयहरं कामिनीनां च ॥ ८४ ॥ विकलमहितं जनन्याः कामात पुत्रदारमतिहीनम् । कुरुते रविसुतदृष्टो नीचविरूपाङ्गनासक्तम् ॥ ८५ ॥ राशिपतौ बलयुक्ते राशौ च बलान्विते तथा चन्द्रे ।
राशिफलं स्यात् सकलं नीचोचविधिना च संचिन्त्यम् ८६ इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रचारो नाम त्रयोविंशोऽध्यायः ॥
चतुर्विंशोऽध्यायः। भौमेशे कुजदृष्टो निकर्तनश्चन्द्रमाः प्रचण्डैश्च । जनयति मायाबहुलं प्रवञ्चकं सूर्यजेन किल पुरुषम् ॥१॥ सूर्येण चोरघातकमथवाप्यारक्षकं शूरम् । जीवेन मनुजनाथं ख्यातं विद्वत्समाराध्यम् ॥ २ ॥ शुक्रेण नृपतिसचिवं धनान्वितं स्त्रीविलेपनानुरतम् । शीघ्रं वदन्ति चपलं सौम्येन निरीक्षिते चन्द्रे ॥३॥ सितभागे सितदृष्टे योषिद्वस्त्रान्नपानधनसौख्यम् । जनयति बुधेन चन्द्रो वाद्यज्ञं नृत्तगेयपरम् ॥४॥ गुरुणा कविप्रधानं नयशास्त्रविशारदं नृपतिसचिवम् । परदारदर्शनपरं कामिनमारेण बहुभृत्यम् ॥ ५॥ सूर्येण महामूर्ख प्रियंवदं सततमन्नपानरुचिम् ।
सौरेण वर्धकीनां गुणैश्च सदृशं दिशति चन्द्रः ॥ ६ ॥ १ परयुवति. २ भौमांशे. ३ नंच. ४ ण्डं च. ५ कलि. ६ धर्षण. ७ कामिनमस्त्रेण बहुमान्यम्.
Aho ! Shrutgyanam