SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सारावली। अलसं मलिनं सधनं मदनात पारदारिकमसत्यम् । दिवसकरपुत्रदृष्टः करोति चन्द्रो नरं मकरे ॥ ७१ ॥ उद्घोणो रूक्षदेहः पृथुकरचरणो मद्यपानप्रसक्तः सद्वेष्यो धर्महीनः परसुतजनकः स्थूलमूर्धा कुनेत्रः । शाठ्यालस्याभिभूतो विपुलमुखकटिः शिल्पविद्यासमेतो दुःशीलो दुःखतप्तो घटभमुपगते रात्रिनाथे दरिद्रः ॥७२॥ अतिमलिनमति च शूरं नृपरूपं धार्मिकं कृषिकरं च । कुरुते दिनकरदृष्टो घटधरसंस्थः क्षपानाथः ॥ ७३ ॥ कुम्भेऽतिसत्यवाक्यं मातृगुरुधनैर्वियुक्तमलसं च । विषमं परकार्यरतं करोति भौमेक्षितश्चन्द्रः ॥ ७४ ॥ शयनोपचारकुशलं गीतविधिज्ञं प्रियं च युवतीनाम् । तनुविभवसुखं पुरुषं करोति बुधवीक्षितः शशी कुम्भे ॥७५॥ ग्रामक्षेत्रतरूणां वरभवनानां वराङ्गनानां च । कुरुते भोगिनमार्य साधुं गुरुवीक्षितः शशी कुम्भे ॥ ७६ ॥ नीचमपुत्रममित्रं कातरमाचार्यनिन्दितं पापम् । कुरुते शशी कुयुवतिं सितेक्षितो घटधरेऽल्पसुखम् ॥७७॥ नखरोमधरं मलिनं परदाररतं शठं विधर्माणम् । स्थावरभागिनमाढ्यं शशी घटे सौरसंदृष्टः ॥ ७८ ॥ शिल्पोत्पन्नाधिकारो हितजयनिपुणः शास्त्रविचारुदेहो गेयज्ञो धर्मनिष्ठो बहुयुवतिरतः सौख्यभाक् भूपसेवी । ईषत्कोपो महत्कः सुखनिधिधनभाक् स्त्रीजितः सत्स्वभावो यानासक्तः समुद्रे तिमियुगलगते शीतगौ दानशीलः ॥७९॥ तीचमदनं प्रकाशं सुखिनं सेनापतिं धनसमृद्धम् । जनयति दिनकरदृष्टः सुमुदितभार्य शशी मीने ॥ ८० ॥ परिभूतं सुखरहितं कुलटापुत्रं च पापनिरतं च । जनयति नक्षत्रपतिः क्षितिसुतदृष्टो झषे शूरम् ॥ ८१॥ ' १ घटभृदुपगते. २ अशनो. ३ सौम्यवाक्. ४ ज्ञाने सक्तः. ५ सुत. ६ पापरहितं. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy