________________
त्रयोविंशोऽध्यायः। नृपतिमथाढ्यं कुरुते शूरं विख्यातपौरुषं चापे । भास्करदृष्टश्चन्द्रस्त्वनुपमसुखवाहनोपेतम् ॥ ५९ ॥ सेनापतिं समृद्धं सुभगं प्रख्यातपौरुषं पुरुषम् । जनयत्यनुपमभृत्यं क्षितिसुतदृष्टः शशी धनुषि ॥ ६०॥ बहुभृत्यं त्वक्सारं ज्योतिषशिल्पक्रियादिनिपुणं च । बुधदृष्टो हिमरश्मिनग्नाचार्य हये कुरुते ॥ ६१ ॥ अनुपमदेहं कुरुते पृथ्वीपालस्य मत्रिणं चापे । त्रिदशगुरुदृष्टमूर्तिर्धनधर्मसुखान्वितं चन्द्रः ॥ ६२ ॥ सुखिनमतीव हि ललितं सुभगं पुत्रार्थकामवन्तं च । चापे सुमित्रभार्य भार्गवदृष्टः करोतीन्दुः ॥ ६३ ॥ प्रियवादिनं सुवाक्यं बहुश्रुतं सत्यवादिनं सौम्यम् ।
अभिजातं नृपपुरुषं जनयति सौरेक्षितः शशी धनुषि ॥६४॥ गीतज्ञः शीतभीरुः पृथुलतरशिराः सत्यधर्मोपसेवी
प्रांशुः ख्यातोऽल्परोषो मनसि भवयुतो निर्बुणस्त्यक्तलजः । चार्वक्षः क्षामदेहो गुरुयुवतिरतः सत्कविवृत्तजचो
मन्दोत्साहोऽतिलुब्धः शशिनि मकरगे दीर्घकण्ठोऽतिकर्णः६५ अधनं दुःखितमटनं परकर्मरतं मलीमसं कुरुते । मकरे कुँवलयनाथः शिल्पमतिं वीक्षितो रविणा ॥ ६६ ॥ अतिविभवमत्युदारं सुभगं धनसंयुतं मृगे पुरुषम् । वाहनयुतं प्रचण्डं करोति वक्रेक्षितश्चन्द्रः ॥ ६७॥ मूर्ख प्रवासशीलं गतयुवंतिं चञ्चलं मृगे तीक्ष्णम् । जनयति बुधेन दृष्टः सुखरहितं निर्धनं पुरुषम् ॥ ६८ ॥ भूपतिमनुपमवीर्यं नृपतिगुणैः संयुतं मृगे जातम् । बहुदारपुत्रमित्रं जनयति गुरुवीक्षितश्चन्द्रः ॥ ६९ ॥ व(प)रयुवतिधनविभूषणवाहनमालान्वितं नरं मकरे ।
सोपक्रोशमपुत्रं जनयति भृगुवीक्षितश्चन्द्रः ॥ ७० ॥ १ नाट्याचार्य. २ चार्वगः. ३ ऽतिदीर्घः. ४ कुविषयनाथं शश्यल्पमतिं निरीक्षितो.
Aho ! Shrutgyanam