________________
६८
.. सारावली । जीवेक्षितस्तुलायां जनयति सर्वत्र पूजितं हिमगुः । क्रयविक्रयेषु कुशलं रत्नादिषु भाण्डजातेषु ॥४८॥ ललितमरोगं सुभगं समुपचिताङ्गं धनान्वितं प्राज्ञम् । विविधोपायविधिज्ञं कुरुते भृगुवीक्षितः शशी तुलके ॥४९॥ कुरुते शशी धनाढ्यं प्रियवाक्यं वाहनैयुतं जूके । विषयरतिं सुखरहितं भास्करिदृष्टो हितं मातुः ॥ ५० ॥ लुब्धो वृत्तोरुजङ्घः कठिनतरतनुर्नास्तिकः क्रूरचेष्टः
चोरो बाल्ये रुगा? हृतचिबुकनखश्चारुनेत्रः समृद्धः । कर्मोद्युक्तः प्रदक्षः परयुवतिरतो बन्धुहीनः प्रमत्तः
चण्डो राज्ञा हृतस्वः पृथुजठरशिराः कीटभे शीतरश्मौ॥५१॥ कुरुते लोकद्वेष्यं बुधमटनं चैव वित्तवन्तं च । दिनकरदृष्टोऽलिगतश्चन्द्रः सुखवर्जितं पुरुषम् ॥ ५२॥
अनुपमधैर्यं कुरुते नृपतिसमं वृश्चिके विभूतियुतम् । . .. . . शूरमजय्यं समरे प्रभक्षणं भूमिजेन संदृष्टः ॥ ५३॥
अचतुरममृष्टवाक्यं यमलापत्यं च युक्तिमन्तं च । ... जनयति बुधेन दृष्टः कूटकरं वृश्चिके च गीतज्ञम् ॥ ५४॥
कर्मासक्तं कुरुते लोकद्वेष्यं च वित्तवन्तं च । गुरुणा दृष्टोऽलिगतो निशाकरो रूपवन्तं च ॥ ५५ ॥ अतिमदमतीव सुभगं धनवाहनभोगललितमिह कीटे । युवतिविनाशितसारं जनयति भृगुवीक्षितश्चन्द्रः ॥ ५६ ॥
नीचापत्यं कृपणं व्याधितमधनं च सत्यहीनं च । ... जनयत्यन्तकदृष्टो नरमधनं चन्द्रमाः कीटे ॥ ५७ ॥ कुब्जाङ्गो वृत्तनेत्रः पृथुहृदयकटिः पीनबाहुः प्रवक्ता
दीघासो दीर्घकण्ठो जलतटवसतिः शिल्पिविद् गूढगुहः । शूरो दृष्ठोऽस्थिसारो विततबहुबलः स्थूलकण्ठोष्ठघोणो ... बन्धुस्नेही कृतज्ञो धनुषि शशिधरे संहताभिः प्रगल्भः ॥५८॥
१ अतिमति. २ वर..३ लालितं कीटे. ४ विदित.
.
Aho ! Shrutgyanam