________________
त्रयोविंशोऽध्यायः ।
स्त्रीलोलो लम्बबाहुर्ललिततेनुमुखश्चारुदन्ताक्षिकर्णी विद्वानाचार्यधर्मा प्रियवचनयुतः सत्यशौचप्रधानः । धीरः सत्वानुकम्पी परविषयरतः क्षान्तिसौभाग्यभागी कन्याप्रायप्रसूतिर्बहुसुं तरहितः कन्यकायां शशाङ्के ॥ ३७ ॥ नृपकोशकरं ख्यातं गृहीतवाक्यं विशिष्टकर्माणम् । कन्यायां रविदृष्टो भार्याहीनं शशी कुरुते ॥ ३८ ॥ शिल्पाचार्यं ख्यातं धनवन्तं शिक्षितं सुधीरं च । कन्यायां कुदृष्टो मातुरनिष्टं शशी कुरुते ॥ ३९ ॥ ज्योतिषकाव्यविधिज्ञं विवादकलहेषु विजयिनं सुतराम् । सातिशयं कन्यायां जनयति निपुणं बुधेक्षितश्चन्द्रः ॥ ४० ॥ बन्धुजनाढ्यं सुखिनं नृपकृत्यकरं गृहीतवाक्यं च । कन्यायां गुरुदृष्टो जनयति विभवान्वितं चन्द्रः ॥ ४१ ॥ कन्यायां बहुदारं विविधालङ्कार भोगिनमथाढ्यम् । सततमिहोर्जितमुदितं कुरुते भृगुणा निरीक्षितश्चन्द्रः ॥४२॥ अदृढस्मृतिं दरिद्रं सुखरहितममातृकं युवतिवश्यम् । कन्यायां यमदृष्टः स्त्रीभोग्यधनं शशी कुरुते ॥ ४३ ॥ उन्नासो व्यायताक्षः कृशवदनतनुर्भूरिदारो वृषाढ्यो
गोर्भूभ्यः शौचसारो वृषसमवृषणो विक्रमज्ञः क्रियेशः । भक्तो देवद्विजानां बहुविभवयुतः स्त्रीजितो हीनदेहो
धान्यादानैकबुद्धिस्तुलिनि शशधरे बन्धुवर्गोपकारी ॥४४॥ अधनं व्याधितमटनं परिभूतं भोगविप्रयुक्तं च । असुतमसारं जूके जनयति रविवीक्षितश्चन्द्रः ॥ ४५ ॥ तीक्ष्णं चोरं क्षुद्रं परयोषिद्गन्धमाल्यसंयुक्तम् । मतिमन्नयनातुरगं जनयति वक्षितश्चन्द्रः ॥ ४६ ॥ दृष्ट्टो बुधेन चन्द्रः कलाविदग्धं प्रभूतधनधान्यम् | शुभवाक्यं विद्वांसं देशख्यातं तुलाधरे कुरुते ॥ ४७ ॥
7
१ तनुयुत. २ बहुसुरतहितः ३ सुभगम्. ४ गुयः.
Aho! Shrutgyanam
६७