________________
सारावली । कुरुते स्वगृहे चन्द्रो रविदृष्टो दुर्गपालं च ॥ २४ ॥ शूरं विकलशरीरं मातुरनर्थावहं प्रियं दक्षम् । क्षितितनयवीक्षिततनुर्जनयति चन्द्रो नरं स्वगृहे ॥ २५ ॥ अविकलमतिं नयज्ञं जनयति बुधवीक्षितः शशी स्वगृहे । धनदारपुत्रवन्तं नृपसचिवं सौख्यवन्तं च ॥ २६ ॥ नृपतिं नृपगुणयुक्तं जनयति चन्द्रः सुरेज्यसंदृष्टः । स्वगृहे सुखितसुभायें नयविनयपराक्रमाक्रान्तम् ॥ २७॥ धनकनकवस्त्रयोषिद्रत्नानां भाजनं शशी कुरुते । कर्कटके सितदृष्टो वेश्याजननायकं कान्तम् ॥ २८॥ अटनमसुखं दरिद्रं मातुरनिष्टं प्रियानृतं पापम् ।
शनिना दृष्टः स्वगृहे करोति चन्द्रो नरं नीचम् ॥ २९ ॥ स्थूलोस्थिर्मन्दरोमा पृथुवदनगलो ह्रस्वपिङ्गाक्षियुग्मः
स्त्रीद्वेषी क्षुत्पिपासाजठररदरुजापीडितो मांसभक्षः । दाता तीक्ष्णो ह्यपुत्रो विपिननगरतिर्मातृवश्यः सुवक्षा विक्रान्तः कार्यलापी शश,ति रविभे सर्वगम्भीरदृष्टिः ॥३०॥ नृपतिसपत्नं कुरुते प्रोत्कृष्टगुणं महास्पदं वीरम् । रविणा दृष्टः सिंहे पापरतं विश्रुतं चन्द्रः ॥ ३१॥ सेनापति प्रचण्डं नरयुवतिसुतार्थवाहनोपेतम् । जनयत्युत्तमपुरुषं कुजेक्षितश्चन्द्रमाः सिंहे ॥ ३२॥ स्त्रीसत्वं स्त्रीललितं स्त्रीवश्यं युवतिसेवक सिंहे । कुरुते बुधेन दृष्टो धनसुखभोगान्वितं चन्द्रः ॥ ३३ ॥ अभिजातं कुलपुत्रं बहुश्रुतं गुणसमृद्धं च । कुरुते नरेन्द्रतुल्यं गुरुदृष्टश्चन्द्रमाः सिंहे ॥३४॥ प्रमदाविभवैर्युक्तं रोगिणमपि युवतिसेवकं कुरुते । सुरतविधिज्ञं प्राज्ञं शशी हरौ शुक्रसन्दृष्टः ॥ ३५ ॥ कर्षकमधनं कुरुतेऽनृतवाचं दुर्गपालकं सिंहे ।
रविजेन तथा दृष्टो युवतिसुखैहीनमल्पकं च शशी ॥ ३६ ॥ १ स्थूलास्यो मन्द. २ ऽल्पपुत्रो. ३ महाखनं धीरं.
Aho ! Shrutgyanam