________________
त्रयोविंशोऽध्यायः।
भूषणयानगृहाणां शयनासनगन्धवस्त्रमाल्यानाम् । भागिनमुपभोक्तारं सितेक्षितो यदि शशी कुरुते ॥ १३॥ धनहीनमनिष्टकरं वृषभे द्वेष्यं सदा च युवतीनाम् । सुतमित्रबन्धुसहितं रविसुतदृष्टः शशी कुरुते ॥१४॥ पूर्वार्धे सम्भूतो जननीमृत्युं करोति न चिरेण ।।
पश्चादधैं वृषभे पितुर्वियोगं शशी कुरुते ॥१५॥ उन्नासश्यामचक्षुः सुरतविधिकलाकाव्यकृद्भोगभोगी ___ हस्ते मत्स्याधिपांको विषयसुखरतो बुद्धिदक्षः सिरालः । कान्तः सौभाग्यहास्यप्रियवचनयुतः स्त्रीजितो व्यायताङ्गो
याति क्लीबैश्च सख्यं शशिनि मिथुनगे मातृयुग्मप्रपुष्टः॥१६॥ प्रज्ञाधनं प्रकाशं मिथुने रूपान्वितं सुधर्मिष्ठम् । अतिदुःखितमल्पार्थ करोति सूर्येक्षितश्चन्द्रः ॥ १७॥ अतिशूरमतिप्राज्ञं सुखवाहनविभवरूपसम्पन्नम् । कुरुते मिथुने चन्द्रो वक्रेण निरीक्षितोऽवश्यम् ॥ १८॥ अर्थोत्पादनकुशलं कुरुते ह्यपराजितं सुधीरं च । पार्थिवमखण्डिताज्ञं मिथुने बुधवीक्षितश्चन्द्रः ॥ १९॥ विद्याशास्त्राचार्य विख्यातं सत्यवाचमतिरूपम् । मान्यं वाग्मिनमिन्दुः करोति गुरुवीक्षितो मिथुने ॥ २० ॥ वरयुवतिमाल्यवस्त्रैर्वरवाहनयानभूषणैर्मणिभिः । क्रीडां कुरुते पुरुषो भृगुदृष्टे शशिनि मिथुनस्थे ॥ २१ ॥ कुरुते बान्धवरहितं युवतिसुखविभूतिवर्जितं चापि । ' अधनं लोकद्वेष्यं जितुमे शनिनेक्षितश्चन्द्रः ॥ २२ ॥ युक्तः सौभाग्ययोगैर्गृहसुहृदटनज्योतिषज्ञानशीलैः । - कामासक्तः कृतज्ञः क्षितिपतिसचिवः सत्प्रमाणः प्रवासी । सोन्मादः केशकल्पो जनकुसुमरुचिर्दानिवृद्ध्यानुयातः प्रासादोद्यानवापीप्रियकरणरतः पीनकण्ठः कुलीरे ॥ २३ ॥
नरपतिपुरुषमधन्यं धनरहितं क्लेशकारकं वाऽपि । १ धनसुखहीनमनिष्टं मातुर्वृषभे करोति युवतीनाम्. २ पुरुषम्. ३ बुद्बुदाक्षः. ४ सौभाग्यधैर्यगृह. ५ लेखहारकं.
Aho ! Shrutgyanam