________________
६४
सारावली । पद्माभैः पाणिपादैर्विततसुतजनो वर्तुलाकारनेत्रः
सस्नेहस्तोयभीरुर्बणविकृतशिराः स्त्रीजितो मेष इन्दौ ॥१॥ अत्युग्रतरो नृपतिः प्रणतानां मार्दवं भजति जातः । धीरः सङ्ग्रामरुची रविणा दृष्टे शशिनि मेषे ॥ २ ॥ दन्ताक्षिरोगतप्तः 'शिखिवातादिक्षतशरीरः । माण्डलिकः स्यान्मेपे कुजदृष्टे शशिनि भृतार्तः ॥३॥ नानाविद्याचार्यः सद्वाक्यः स्यान्मनोभीष्टः । बुधदृष्टे मेषस्थे निशाकरे सत्कविर्विपुलकीर्तिः ॥४॥ बहुभृत्यधनसमृद्धो नृपतेः सचिवश्वमूपतिर्वाऽपि । मेषगृहे हिमरश्मौ दृष्टे गुरुणा पुमान् जातः ॥५॥ सुभगः सुतधनयुक्तो वरयुवतिविभूषणोऽल्पभोक्ता च । मेषे शिशिरमयूखे भृगुतनयनिरीक्षिते भवति ॥ ६॥ विद्विष्टो बहुदुःखो दारिद्यतनुर्मलीमसोऽनृतवाक् ।
मेषे शिशिरमयूखे रवितनयनिरीक्षिते भवति ॥ ७॥ व्यूढोरस्कोऽतिदाता धनकुटिलकचः कामुकः कीर्तिशाली
कान्तः कन्याप्रजावान् वृषसमनयनो हंसलीलाप्रचारः । मध्यान्ते भोगभागी पृथुर्कटिचरणस्कन्धजावास्यजङ्घः
सांकः पार्थास्यपृष्ठे ककुँदि शुभगतिः क्षान्तियुक्तो गवीन्दौ ८ कर्षकमतिकर्मकरं द्विपदचतुष्पदसमृद्धमत्याढ्यम् । प्रायोगिकं प्रकुरुते वृषभे रविवीक्षितश्चन्द्रः ॥ ९ ॥ अतिकामं कुजदृष्टो युवतिकृते नष्टदारमित्रजनम् । हृदयहरं नारीणां मातुर्न शुभं शशी वृषे कुरुते ॥ १० ॥ प्राज्ञं वाक्यविधिज्ञं प्रमुदितमिष्टं समस्तभूतानाम् । जनयति बुधेन दृष्टः शशी वृषेऽनुपमगुणैर्युक्तम् ॥११॥ स्थिरपुत्रदारसुहृदं मातापितृभक्तिमन्तमतिनिपुणम् । धार्मिकमतिविख्यातं गवि गुरुदृष्टः शशी कुरुते ॥ १२ ॥
१ वहति. २ विषशिखितापास्त्रवैकृतशरीरः. ३ मूत्रकृच्छ्रातः... ४ वामा विद्याचार्यः. ५ भोक्ता. ६ कर. ७ ककुद. ८ चतुष्पदैः समृद्धं च. ९ मातुरपथ्यं,
Aho! Shrutgyanam