________________
त्रयोविंशोऽध्यायः। अटनप्रियोऽल्पसत्त्वः स्वपक्षविक्षोभनाशितसमस्तः ।। मकरस्थे दिवसकरे जातो बहुभक्षकः पुरुषः ॥ ५७ ।। मायापटुश्चलमतिः स्त्रीसङ्गान्नष्टधनसौख्यः । नक्रगृहे तीव्रकरे चन्द्रेण निरीक्षिते भवति ॥ ५८ ॥ व्याधिभिररिभिर्ग्रस्तः परकलहात् शस्त्रविक्षतशरीरः । मन्दगृहे तिमिररिपौ भौमेन निरीक्षिते विकलः ॥ ५९ ॥ शूरः षण्डप्रकृतिः परस्वहारी नसारसर्वाङ्गः । नलिनीदयिते शनिभे बुधेन संवीक्षिते भवति ॥ ६०॥ शोभनकर्मा मतिमान् सर्वेषामाश्रयो विपुलकीर्तिः । कोणगृहे दिनभर्तरि गुरुणा दृष्टे मनस्वी च ॥ ६१ ॥ शङ्खग्रवालमणिभिर्जीवति वेश्याङ्गनाधनसमृद्धः । कोणभवने दिनपतौ भृगुणा दृष्टे सुखी जातः ॥ ६२ ॥ ध्वंसयति शत्रुपक्षं नरेन्द्रसन्मानवर्धिताश्वासः । भानौ शनैश्वरगृहे शनिदृष्टे सूयते योऽसौ ॥ ६३ ॥ हृद्रोगी बहुसत्त्वः सतां विगोऽतिरोषश्च । परदाराणां सुभगः कर्मस्विति निश्चितो भवति ॥ ६४ ॥ दुःखप्रायोऽल्पधनः शठश्चलितसौहृदो मलिनमूर्तिः । कुम्भधरेऽर्के जातः पिशुनः स्यात् दुष्प्रलापश्च ॥ ६५ ॥ सुहृदां संग्रहशीलः स्त्रीप्रीत्या लब्धसौख्यसंभारः । प्राज्ञो बहुशत्रुघ्नः क्षयोदयी भवति धनकी| ॥६६॥ सत्सुतभृत्याप्तयशा जलपण्यधनः सुवागनृतवादी ।
ऊर्जितगुह्यरुगा” बहुसहजो मीनसंस्थेऽर्के ॥ ६७ ॥ इति कल्याणवर्मविरचितायां सारावल्यामादित्यचारदृष्टियोगो नाम द्वाविंशोऽध्यायः।
त्रयोविंशोऽध्यायः। सौवर्णाङ्गः स्थिरस्वः सहजविरहितः साहसी मानभद्रः
कामातः क्षामजानुः कुनखतनुकचश्वञ्चलो मानवित्तः ।
१ जयोदयी. २ सेवाविन्नः, ३ वानभद्रः.
Aho ! Shrutgyanam