________________
द्वाविंशोऽध्यायः। विद्यामानयशोभिः ख्यातो नृपवल्लभो भवेनिपुणः । सूर्ये कुलीरराशौ बुधेन दृष्टे विगतशत्रुः ॥ ३०॥ श्रेष्ठो राज्ञो मन्त्री सेनानाथोऽथ सुप्रसिद्धश्च । सूर्ये शशिभवनस्थे गुरुणा दृष्टे कलाभ्यधिकः ॥ ३१ ॥ स्त्रीसेवी युवतिधनः परकार्यकरो रणे प्रचण्डश्च । कर्कटकस्थे सूर्ये शुक्रेण निरीक्षिते प्रियालापः ॥ ३२ ॥ कफमारुतरोगातः परस्वहारी विलोममतिचेष्टः । कर्कटकस्थे भानौ स्वपुत्रदृष्टे पुमान् पिशुनः ॥ ३३ ॥ रिपुहन्ता क्रोधपरो विशिष्टचेष्टो वनाद्रिदुर्गचरः । उत्साही सच्छूरस्तेजस्वी मांसभक्षणो रौद्रः ॥ ३४ ॥ गम्भीरः स्थिरसत्वो बधिरः क्षितिपालको धनसमृद्धः । सिंहस्थे दिवसकरे ख्यातः पुरुषो भवेजातः ॥ ३५ ॥ मेधावी सुकलत्रः कफार्दितो भूपवल्लभो मनुजः । आदित्य सिंहस्थे चन्द्रेण निरीक्षिते भवति ॥ ३६ ॥ परदाररतः शूरः साहसकारी कृतोद्यमो रौद्रः । दिवसकरे सिंहस्थ कुजेन दृष्टे प्रधानश्च ॥ ३७॥ विद्वान् लिपिलेख्यकरः कितवासेवी परिभ्रमति हीनः । सिंहस्थे दिवसकरे बुधेन दृष्टे न बहुसत्वः ॥ ३८ ॥ देवारामतटाकान् करोति सत्वाधिको विजनशीलः । सिंहे सहस्ररश्मौ सुरगुरुदृष्टे महाबुद्धिः ॥ ३९ ॥ दुनीमकुष्ठरोगैरभिभूतो निर्दयो विगतलजः । सिंहे तिमिरविनाशे शुक्रेण निरीक्षिते जातः ॥ ४० ॥ कार्यविनाशनदक्षः पण्डो जातः परोपतापकरः । सिंहस्थे दिवसकरे स्वपुत्रदृष्टे पुमान् भवति ॥ ४१ ॥ स्त्रीतुल्यतनुहीमान् लिपिवेत्ता दुर्बलश्च वल्गुकथः । मेधावी लघुसत्त्वो विद्वान् शुश्रूषकः सुरगुरूणाम् ॥ ४२ ॥ संवाहनादिकर्मसु दक्षः श्रुतिगेयवाद्यपरितुष्टः ।
१ प्रभन्नश्च. २ मुखरः. ३ सुगुणः.
६ सारा०
Aho ! Shrutgyanam