________________
सारावली । नीचोऽलसो दरिद्रो वृद्धस्त्रीसंगतो विषमशीलः । दिननाथे सितभवने शनिदृष्टे व्याधिसन्तप्तः ॥ १७ ॥ मेधावी वाङ्मधुरो वात्सल्यगुणैर्युतः श्रुताचारः । विज्ञानशास्त्रकुशलो बहुवित्त उदारचेष्टश्च ॥ १८ ॥ निपुणो ज्योतिषवेत्ता मध्यमरूपो द्विमातृकः सुभगः । मिथुनस्थे दिनभर्तरि जातः पुरुषो विनीतः स्यात् ॥ १९ ॥ रिपुबान्धवकृतपीडा विदेशगमनादितो बहुविलापी । बुधभवने दिनभर्तरि दृष्टे चन्द्रेण पुरुषः स्यात् ॥ २० ॥ रिपुभयकलहसमेतो रणापवादादिदुःखितो दीनः । बुधराशौ दिनभर्तरि कुजेक्षिते भवति सव्रीडः ॥ २१ ॥ भूपतिचरितः ख्यातो बान्धवसहितोऽरिभिश्च संत्यक्तः । बुधराशौ दिनभर्तरि बुधदृष्टेऽक्ष्यामययुतः स्यात् ॥ २२ ॥ बहुशास्त्रदारितमुखो राज्ञां दूतो विदेशगवण्डः । बुधराशौ दिनभर्तरि गुरुणा दृष्टे सदोन्मादः ॥ २३ ॥ धनदारपुत्रसुखितो मन्दस्नेहस्त्वनामयः सुखितः । बुधराशौ दिनभर्तरि सितसंदृष्टे भवेच्चपलः ॥ २४ ॥ बुहुभृत्योद्विग्नमना बहुबन्धुविपोषणे सदा निरतः । बुधराशौ दिनभर्तरि सौरेण निरीक्षिते कितवः ॥ २५ ॥ कर्मसु चपलः ख्यातो गुणैर्नृपाणां स्वपक्षविद्वेषी । स्त्रीदुर्भगः सुरूपः कफपित्तातः श्रमाभिसन्तप्तः ॥ २६ ॥ मद्यरुचिः समधर्मा मानी वरवाक्यदेशदिग्वेत्ता । सूर्ये कुलीरसंस्थे बहुस्थितिः पितृगणद्वेष्टा ॥ २७॥ राजा राजसमो वा जलपण्यधनस्थिरः क्रूरः । कर्कटके तीव्रकरे दृष्टे शशिना भवेत्पुरुषः ॥ २८॥ शोषभगन्दररोगैः सन्तप्तो बन्धुभिः सह विरक्तः । कर्कटके दिननाथे भौमेन निरीक्षिते पिशुनः ॥ २९॥ .
१ बुधेन दृष्टे कृशतनुः स्यात्. २ सहितो. ३ सुभगः. ४ खिन्नः. ५ मद्यप्रियः सधर्मो. ६ बहु. ७ स्थितिः. ८ शोफ. ९ विरुद्धः. १० विसुतः,
Aho ! Shrutgyanam