________________
द्वाविंशोऽध्यायः । साहसकर्माभिरतः पित्तासृग्व्याधिकान्तिसत्वयुतः ।। सूर्ये भवति नरेन्द्रः स्वतुङ्गराशौ नरो जातः ॥३॥ दानरतो बहुभृत्यो ललितो युवतिप्रियो मृदुशरीरः । कुजभवनगते सूर्ये चन्द्रेण निरीक्षिते भवति ॥४॥ सङ्ग्रामोत्कटवीर्यः क्रूरः संरक्तनेत्रकरचरणः । भौमगृहे कुजदृष्टे भानौ तेजोबलोपेतः ॥ ५॥ प्रेष्यः परकर्मरतो मन्दधनः सत्वहीनबहुदुःखः । भानौ बुधसंदृष्टे कुजभवने मलिनकायश्च ॥६॥ भूरिद्रविणो दाता नृपमत्री दण्डनायको वाऽपि । तरणौ सुरगुरुदृष्टे कुजभवने जायते श्रेष्ठः ॥ ७॥ कुत्सितरामाभर्ता बहुशत्रुः क्षीणबान्धवो दीनः । भौमगृहे सितदृष्टे दिवाकरे जायते कुष्ठी ॥ ८॥ दुःखपरिप्लुतदेहः कार्योन्मादी भवेद्विमूढमतिः । भौमः दिवसकरे रवितनयनिरीक्षिते मूर्खः ॥९॥ वदनाक्षिरोगतप्तः क्लेशसहिष्णुर्न चापि बहुशत्रुः । भक्तो व्यवहाररतो रैतिमान्वन्ध्याङ्गनाद्वेषी ॥ १० ॥ भोजनमाल्याच्छादनगन्धयुतो गेयवाद्यनृत्तज्ञः । दिवसकरे वृषसंस्थे भवति पुमान् सलिलभीरुश्च ॥ ११ ॥ वेश्यारतिम॒दुवचा बहुयुवतिसमाश्रयो भवति । दिननाथे सितभवने दृष्टे शशिना सलिलजीवी ॥ १२ ॥
शूरः सङ्ग्रामरुचिस्तेजस्वी साहसाप्तधनकीर्तिः । दिननाथे सितभवने कुजसंदृष्टे पुमान् विकलः ॥ १३ ॥ लिपिलेख्यकाव्यपुस्तकगेयादिविधावतीव निपुणमतिः । दिननाथे सितभवने बुधसंदृष्टे भवेत् सुतनुः ॥ १४ ॥ बहुशत्रुमित्रपक्षो नृपसचिवश्वारुलोचनः कान्तः । दिननाथे सितभवने गुरुणा दृष्टे सुतोपितो नृपतिः ॥१५॥ नृपतिर्नुपमत्री वा स्त्रीधनबहुयोगसंयुतो मतिमान् । दिननाथे सितभवने सितसंदृष्टे भवेद्भीरुः ॥ १६ ॥ १ कुत्सितरामासक्तः. २ कृशो न बहुपुत्रः. ३ मतिमान्. ४ सदोद्युक्तः, सदोद्विमः.
Aho! Shrutgyanam