________________
सारावली ।
अटनप्रियाः सुरूपाः परदेशेष्वर्थभागिनो मनुजाः । क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥ ४३ ॥ मानधनज्ञानयुताः कर्मोद्युक्ता नृपप्रियाः ख्याताः । स्थिरचित्ता मुसलोत्था भवन्ति शूराः सदा पुरुषाः ॥ ४४ ॥ ऊनातिरिक्तदेहा धनसंचयभागिनोऽतिनिपुणाश्च । बन्धुहिताच सुरूपा नलयोगे सम्प्रसूयन्ते ॥ ४५ ॥ दारिद्यालस्ययुता विद्याज्ञामानवर्जिता मलिनाः । नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥ ४६ ॥ पाषण्डभागिनो वा धनरहिता वा बहिष्कृता लोके । सुतमान धर्मरहिता युगयोगे मानवा जाताः ॥ ४७ ॥ तीक्ष्णालसधनरहिता हिंस्राः सुबहिष्कृता महाशूराः । सङ्ग्रामलब्धशब्दाः शूले रौद्राः प्रजायन्ते ॥ ४८ ॥ सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिताः । केदारे सम्भूताश्चलखभावा धनैर्युक्ताः ॥ ४९ ॥ पाशे बन्धनभाजः कार्योद्युक्ताः प्रपञ्चकाराश्च । बहुभाषिणो विशीला बहुभृत्याः सम्प्रसूताः स्युः ॥ ५० ॥ दामिन्यामुपकारी पशुगणयुक्तो धनेश्वरो मूढः । बहुसुतरत्नसमृद्धो धीरो विद्वान् प्रजातः स्यात् ॥ मित्रान्विताः सुवचसः शास्त्रपरा गेयवाद्यनिरताश्च । सुखभाजो बहुभृत्या वीणायां कीर्तिता मनुजाः ॥ ५२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां नाभसयोगो नामैकविंशोऽध्यायः ॥
५१ ॥
५८
द्वाविंशोऽध्यायः ।
सर्वस्य सर्वकालं ग्रहराशिसमुद्भवं फलं यस्मात् । कथयाम्यतः प्रयत्नात् शेषाचार्यान् समाश्रित्य ॥ १ ॥ शास्त्रार्थकृतिकलाभिः ख्यातो युद्धप्रियः प्रचण्डश्च । उद्युक्तो भ्रमणरुचिर्दृढास्थिबन्धः क्रिये श्रेष्ठः ॥ २ ॥
१ यत्स्यात्.
Aho! Shrutgyanam