________________
एकविंशोऽध्यायः।
रोगार्ताः कुकलत्रा मूर्खाः शकटानुजीविनो निःस्वाः । खजनैमित्रहींनाः शकटे जाता भवन्ति नराः ॥३०॥ भ्रमणरुचयो निकृष्टा दूताः सुरतानुजीविनो धृष्टाः । कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥ ३१ ।। सततं मानार्थपरा यज्वानः शास्त्रयोगकुशलाश्च । धनकनकरत्नसम्पत्संयुक्ता मानवा गदायान्तु ॥ ३२॥ प्रियकलहसमरसाहससुखिनो नृपतेः प्रियाः सुभगकान्ताः । आढ्या युवतिद्वेष्याः शृङ्गाटकसंभवा मनुजाः ॥३३॥ बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगाः । बन्धुसुहृत्सन्त्यक्ताः प्रेष्याहलसंज्ञिते पुरुषाः ॥ ३४ ॥ प्रणताशेषनराधिपकिरीटरत्नप्रभाच्छुरितपादः । भवति नरेन्द्रो मनुजश्चके यो जायते योगे ॥ ३५॥ बहुधनरत्नाः क्षितिपा भोगार्थयुता जनप्रियाश्चापि । उदधिसमुत्थाः पुरुषाः स्थिरचित्ताः सत्ववन्तश्च ॥ ३६ ।। आत्मनि रक्षानिरतस्त्यागयुतो वित्तसौख्यसम्पन्नः । व्रतनियमसत्यनिरतो यूपे जातो विशिष्टश्च ॥ ३७॥ इषुकरणदस्युबन्धनमृगयावनसेवनेतिसोन्मादाः। हिंस्राः कुशिल्पनिरताः शरयोगे सम्प्रसूताः स्युः ॥ ३८॥ धनरहितविकलदुःखितनीचालसपेलवायुषः पुरुषाः । सङ्ग्रामयुद्धनिपुणाः शक्त्यां जाताः स्थिराः सुभगाः ॥ ३९ ॥ हतपुत्रदारनिःस्वाः सर्वजनैय॑क्कृताः स्वजनाह्याः । दुःखितनीचाः प्रेष्या दण्डप्रभवा नराः सततम् ॥ ४०॥ नित्यं सुखप्रधाना वाहनवस्त्रार्थभोगसम्पन्नाः । कान्ताः सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥४१॥ विषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च । परभुक्ताः पानरताः सर्प जाता भवन्ति नराः ॥ ४२ ॥
१ नीचा योनिनिकृष्टाः. २ गेय. ३ सुहृद्भिस्त्यक्ताः. ४ स्सशुभाः. ५ काराः. ६ हीनाः, ७ भवन्ति नराः. ८ परभक्तपापनिरताः, परवेश्मभक्ष्यनिरताः.
Aho ! Shrutgyanam