________________
. सारावली। राश्यन्तरितैर्लग्नात् षट्भवनगतैर्भवेचक्रम् । अर्थात्तथैव यातैश्चक्राकारो भवेजलधिः ॥ १६ ॥ इत्याकृतिजा एते विंशतिसंख्या मया समुद्दिष्टाः । आश्रयजातान् वक्ष्ये यथामतं वृद्धगार्ग्यस्य ॥ १७ ॥ उभयस्थिर चरसंस्थैः सर्वैर्नलमुसलरज्जवः क्रमशः । केन्द्रेषु सौम्यपापैर्माला सर्पश्च दलयोगौ ॥ १८ ॥ एकभवनादिसंस्थैः संख्याख्याः स्युर्यथाक्रमं योगाः । गोलयुगशूलसंज्ञाः केदारः पाशदामनीवीणाः ॥ १९॥ एतेषां फलयोगं कथयामि यथाक्रमं मुनिभिरुक्तम् । सर्वदशास्वपि फलदाः सकला एते बुधैश्चिन्त्याः ॥ २० ॥ सलिलोपजीवविभवा बह्वायाख्यातकीर्तयो दृष्टाः । कृपणा बलिनो लुब्धा नौसम्भूताश्चलाः पुरुषाः॥ २१॥ आनृतिककितवबन्धनपाला निष्किञ्चनाः शठाः क्रूराः । कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥२२॥ स्वजनाश्रयो दयावान् दाता नृपवल्लभः प्रकृष्टमतिः । प्रथमेऽन्ये वयसि नरः सुखभाग्ययुतः सितातपत्रः स्यात् २३ आनृतिकगुप्तिपालाश्चोराः कितवाश्च कानने निरताः । कार्मुकयोगे जाता भाग्यविहीना वयोमध्ये ॥ २४ ॥ सुभगाः सेनापतयः कान्तशरीरा नृपप्रिया बलिनः । मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ॥२५॥ आद्यन्तवयंसि सुखिताः शूराः सुभगा विरोगदेहाश्च । भाग्यविहीना वज्रे जाताः स्वजनैर्विरुद्धाश्च ॥२६॥ व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थसंयुक्ताः । दातारः स्थिरवित्ता यवयोगभवाः सदा पुरुषाः ॥ २७ ॥ स्फीतयशसो गुणाढ्याः स्थिरायुषो विपुलकीर्तयः कान्ताः । शुभयशसः पृथिवीशाः कमलभवा मानवा नित्यम् ॥२८॥ निधिकरणे निपुणधियः स्थिरार्थसुखसंयुताः सुरूपाश्च ।
नयनसुखसम्प्रहृष्टा वापीयोगे नरा जाताः ॥ २९॥ १ आद्यन्तवयःसुखिनः. २ सुतृष्णाश्च.
Aho! Shrutgyanam