________________
एकविंशोऽध्यायः ।
नौच्छत्रकूटकार्मुकशृङ्गाटक वज्रदामनीपाशाः । वीणासरोजमुसला वापीहलशरसमुद्रचक्राणि ॥ २ ॥ माला सर्पार्धेन्दू यवकेदारौ गदाविहगयूपाः । युगशकटशूलदण्डा रज्जुः शक्तिस्तथा नलो गोलः ॥ ३ ॥ सचराचरस्य जगतो योगैरेभिः प्रकीर्त्यते प्रसवः । आश्रयजातान् प्राहुर्माणिन्धा मुसलरज्जुनलयोगान् ॥ ४ ॥ -गोलयुगशूलपाशा वीणाकेदार दामनीसंज्ञाः । सप्तैते संख्याख्याः पूर्वाचार्यैः समुद्दिष्टाः ॥ ५॥ द्वे चार्धयोगसंज्ञे भुजङ्गमाले पराशरेणो के । आकृतिजाता विंशतिरपरैः कथिताश्च सावित्रे ' ॥ ६ ॥ आश्रययोगे जाता अमिश्रिते सौख्यलाभगुणयुक्ताः । अन्योन्यमिश्रिताश्चेद्विगतफलाः स्युस्तदा योगाः ॥ ७ ॥ नन्दन्ति स्वैर्भाग्यैर्नृपलब्धधना नृपप्रियाः ख्याताः । प्रायेण सौख्ययुक्ताश्वाकृतियोगेषु ये जाताः ॥ ८ ॥ परभाग्यलब्धसौख्या धनभाग्यैरेव जीवितास्तेषाम् । संख्यासंज्ञे जाता ये पुरुषाः सर्वतो विकलाः ॥ ९ ॥ कचित् स्वभाग्यैः क्वचिदेवमेवं कचित्पराद्भूपतितः फलं च । कचित्सुखं दुःखमतीव कष्टं समार्धयोगे पुरुषो लभेत ॥ १० ॥ होरादिकण्टकेभ्यः सप्तर्क्षगतैः क्रमेण योगाः स्युः । नौच्छत्रकूटकार्मुकनिर्देशाः पूर्वयवनेन्द्रैः ॥ ११ ॥ लग्नादिकण्टकेभ्यश्चतुर्गृहावस्थितैर्ग्रहैर्योगाः । यूपशरशक्तिदण्डाः सत्याचार्यप्रिया नित्यम् ॥ १२ ॥ सप्तर्क्षगैर्ग्रहेन्द्रैः केन्द्रादन्यत्र कीर्तितोऽर्धशशी । केन्द्रप्रत्यासन्नैर्भवनद्वयगैर्गदा नाम ॥ १३ ॥ लग्नास्तगतैः सौम्यैः पापैः सुखकर्मगैर्भवति वज्रम् | विपरीतैर्यवयोगो मित्रैः पद्मं बहिः स्थितैर्वापी ॥ १४ ॥ होरास्तगतैः शकटं चतुर्थदशमाश्रितैर्भवेद्विहगः । उदयान्त्यगैस्त्रिको हल इति शृङ्गाटकं सलग्ने तत् ॥ १५ ॥
१ सावित्रैः. २ परभाग्यैरेव जीवितं तेषाम्.
Aho! Shrutgyanam
५५