SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५४ सारावली। वृद्धश्रावकभस्मधूलिधवलाः शैवव्रते ये स्थिता ___ बाह्याः पातकितां गता भगवतीभक्ताश्च निःसङ्गिनः । सिद्धान्ते खलु सोमनाग्नि निरताः कापालिका निष्ठुरा स्तेषां नायकतां गतः शशधरः खट्वाङ्गपाणिद्युतिः॥३१॥ उपासका बुद्धसमाश्रयं गताः शिखां गताः पाण्डरभिक्षवश्व ये । सुवाससो रक्तपटा जितेन्द्रियाः प्रभुः सदैषां क्षितिजः प्रकीर्तितः॥३२ आजीविनां कुहकिनां समयाधिका ये ये दीक्षितास्तनुभृतः खलु गारुडे च ।। तत्रे मयूरपिशिताशनयोश्च युक्ता- . ___ स्तेषां शशाङ्कतनयोऽधिपतिर्निरुक्तः ॥ ३३ ॥ एकं त्रीनथवा वहन्ति मुनयो दण्डान् कषायाम्बरा वानप्रस्थमुपागताः फलपयोभक्षाश्च ये भिक्षवः । गार्हस्थ्येन तु संस्थिता नियमिनः सद्ब्रह्मचर्यं गता स्तेषां दण्डपतिः सुरेन्द्रसचिवस्तीर्थेषु ये स्नातकाः ॥३४॥ पाशुपतयज्ञदीक्षाव्रतेषु ये नित्यमेव संयुक्ताः । वैष्णवचरकाणामपि तेषां नेता प्रकीर्तितः शुक्रः॥ ३५ ॥ पाषण्डव्रतनिरता दिगम्बरा भिक्षवो ये च । तेषामधिपतिरार्किः श्रावकतरुमूलिनश्च दुस्तपसः ॥ ३६॥ प्रकथितमुनियोगे राजयोगो यदि स्या दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् । जनयति पृथिवीशं दीक्षितं साधुशीलं प्रणतनृपशिरोभिः स्पृष्टपादाब्जयुग्मम् ॥ ३७॥ इति कल्याणवर्मविरचितायां सारावल्यां प्रव्रज्यायोगो नाम विंशोऽध्यायः ॥ एकविंशोऽध्यायः । यवनाद्यैर्विस्तरतः कथिता योगास्तु नाभसा नाम्ना । अष्टादशशतगुणितास्तेषां द्वात्रिंशदिह वक्ष्ये ॥१॥ १ शिखां विना. २ समयाधिकारे. ३ सद्भिक्षवः. ४ समये. ५ घृष्ट. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy