________________
विंशोऽध्यायः। प्रव्रज्यायाः स्वामी रविमुषितत निरीक्षितो वाऽन्यैः ।
याचितदीक्षा भवति च यवनाधिपतेर्यथा वाक्यम् ॥२१॥ शशी दृकाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् । कुजांशके वा रविजेन दृष्टो नवांशतुल्यं कथयन्ति तत्पुनः॥२२॥ जन्माधिपः सूर्यसूतेन दृष्टः शेषैरदृष्टः पुरुषस्य सूतौ । आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥२३॥ जन्मपतिर्विकलाङ्गः पश्यति सौरि चतुष्टये प्रबलम् । यस्य स भाग्यविहीनः प्रव्रज्यां प्राप्नुयात् पुरुषः ॥ २४ ॥ गुरुहिमगुरवीणामेक एवोदयस्थो __ गगनतलगतो वा रिःफगश्वाल्पमूर्तिः । अविकलबलभाजा सूर्यपुत्रेण दृष्टो
जनयति खलु जातं तापसं दुःखभाजम् ॥ २५ ॥ कुमुदवनसुबन्धुं सौम्यभागे बलस्थं
वियति गमनशीलान् स्वोच्चभस्थांश्च शेषान् । यदि दिनकरपुत्रः पश्यति प्राप्तवीर्यों __ भवति भुवननाथो दीक्षितश्च स्वतत्रः ॥ २६ ॥ अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
बलविरहितरिक्तं प्रेक्षते लग्ननाथम् । यदि भवति तपस्वी दुःखितः शोकतप्तो
धनजनपरिहीनः कृच्छूलब्धान्नपानः ॥ २७ ॥ सौरिः शुभभागस्थः पश्यति चन्द्र ग्रहांस्तथैवान्यान् । कुम्भांशेषु प्राप्तान् जनयति दीक्षान्वितं पुरुषम् ॥ २८॥ एकदंगतैः सर्वैर्जन्माधिपतिर्निरीक्षितो यस्य । दीक्षा तस्यावश्यं भवतीति पुरातनैः कथितम् ॥ २९ ॥ अग्नीनां परिचारका गिरिनदीतीराश्रमे तापसाः
सूर्याराधनतत्परा गणपतेर्भक्ता उमायाश्च ये । गायत्री जपतां वने नियमिनां गङ्गाभिषेकार्थिनां
कौमारव्रतमिच्छतामधिपतिस्तेषां सदा भास्करः॥३०॥ १ रुचि. २ कुजार्क. ३ तं पुनः. ४ विपुलाङ्गः. ५ तुङ्गांशेषु.
Aho ! Shrutgyanam