________________
५२
सारावली। कुजज्ञवागीशसितार्किभास्करैः सितार्किजीवेन्दुजचन्द्रभूमिजैः । बलप्रधानैः सहितैर्विहङ्गमैव्रजेत्प्रजातः पुरुषस्तपस्विताम् ॥११॥ रवीन्दुवागीशशनैश्चरैश्च शनैश्चरेन्द्वकसितैरवश्यम् । रवीन्दुपुत्रक्षितिजेन्द्रपूज्यैस्तपस्विनः स्युः फलमूलभक्षिणः ॥१२॥ वकार्कसोमात्मजदानवेड्या भौमेन्दुवागीशशशाङ्कपुत्राः । एकदंगा जन्मनि यस्य जन्तोर्भवेद्वती वल्कलचीरधारी ॥१३॥ शशीन्दुपुत्रक्षितिजापुत्रा बुधक्षमापुत्रसुरेड्यसौराः । एकदंगा जन्मनि यस्य सूतौ कुर्वन्ति तं तापसमेव शान्तम् ॥१४॥
चन्द्रार्कभार्गवशशाङ्कसुता बलस्था
भौमेन्दुपुत्रसितभास्करनन्दनाश्च । मन्देन्दुवाक्पतिसिता नियतं यतीनां
कुर्वन्ति जन्म फलपाककृताशनानाम् ॥ १५ ॥ रविकुजशशिशुक्रैश्चन्द्रभौमज्ञसूर्यै
गुरुसितरविमन्दैः शुक्रजीवेन्दुवकैः । कुजबुधसितचन्द्ररेभिरेकर्फयातै
भवति गिरिवनौकास्तापसः सर्ववन्धः ॥ १६ ॥ सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमदेवगुरुशुकैः । रविशशिकुजबुधजीवैर्भवति यतिर्दुःखितो दीनः ॥ १७ ॥ कुजार्किदेवेड्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः । समं गतैः स्युः सबलैर्यथोक्तैर्जटाधरा वल्कलधारिणश्च ॥१८॥
भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः
सूर्येन्दुभौमगुरुशुक्रशनैश्चरैश्च । प्राप्नोत्यवश्यमिह तापसरूपमेभि
रेकर्फगैर्गगनवासिभिरेव जातः ॥ १९ ॥ प्रव्रज्येशे दिनकरगते भुक्तिमन्तोऽतिशक्ताः
प्रव्रज्यायाः सुबलसहितैः स्थैर्यमाहुग्रहेन्द्रैः । सम्पूर्णानां वशमनुगतैः प्रच्युतैस्तैर्बहुत्वे
वीर्योपेतैर्भवति बहुभिः सद्बलस्यानुपूर्व्यात् ॥२०॥ १ दिनकरगतैर्भक्तिमन्तो न शक्ताः. २ वधमुपगतैः. ३ प्रच्युतिस्तै. ..
Aho ! Shrutgyanam