________________
विंशोऽध्यायः॥ नित्यं शुचिः प्रतापी बहुयुवतिरतो नृपप्रियो मत्री । धनसुतसौभाग्ययुतः कुजार्किसितचन्द्रबुधजीवैः ॥ ७॥ प्रायो दरिद्रदुःखी मूर्खः षट्पञ्चसंयुतैर्विहगैः ।
अन्योन्यदर्शनादपि फलमेतत्कन्दलाः प्राहुः ॥ ८॥ इति कल्याणवर्मविरचितायां सारावल्यां षट्ग्रहयोगो नामैकोनविंशोऽध्यायः ॥
विंशोऽध्यायः । योगा विभक्ताश्चतुरादिसंस्थैर्व्यासाद्रहैः कैरपि तापसानाम् । जन्मादि तेषामपरैर्मुनीन्द्रैः संवेदितं तत्कथयाम्यशेषात् ॥१॥ सूर्येन्दुशुक्रार्यमहीसुतेषु सूर्येन्दुसोमात्मजभूमिजेषु । एकस्थितेषु प्रभवेत्तपस्वी भान्वारमन्दज्ञसितेषु चैव ॥ २ ॥ कुजेन्दुसूर्यज्ञपुरोहितैश्च तीक्ष्णांशुचन्द्रार्किशशाङ्कजैश्च । सूर्येन्दुभूपुत्रशनैश्चरैः स्यादेकह्मगैः प्रव्रजितो मनुष्यः ॥ ३॥ आदित्यगुर्वार्किशशाङ्कपुत्रा भौमार्कचन्द्रात्मजसूरयश्च । एकर्भसंस्थास्तपसि स्थितानां कुर्वन्ति जन्मप्रसवे ग्रहेन्द्राः ॥४॥ सितार्कभौमार्कसुता महाबलाः सुरेज्यभूपुत्रकसौरसूरयः । कुजेन्दुवागीशशनैश्चरा इमे समं गता वै जनयन्ति तापसम् ॥५॥ कुजार्किसोमात्मजदेववन्दितैः कुजार्किचन्द्रात्मजसूर्यभार्गवैः । रवीन्दुभौमासितदानवप्रियैर्भवन्ति सूता व्रतसंयुता नराः ॥६॥ सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेड्यबुधार्कनन्दनैः । सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥७॥ चन्द्रेन्दुपुत्रारसुरेड्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभूमिजैः । स्थितैरमीभिः सहितैसम्भवा भवन्ति वन्द्या मुनयोऽत्र दूषकाः ८ रवीन्दुभौमेन्दुजजीवभार्गवैः शशाङ्कभौमार्किबुधेड्यभास्करैः । कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैनरो व्रती ॥९॥ सितेन्दुजीवार्कजसूर्यलोहितैः सितार्कभौमार्किशशाङ्कसोमजैः । एकत्र यातैर्गगनेचरैः सदा भवन्ति जाता मुनयो यशस्विनः॥१०॥ १ जन्माईतैषां. २ सौरयश्च.
Aho ! Shrutgyanam