________________
५०
सारावली । बहुशास्त्रज्ञानपटुर्मित्रहितः संमतो गुरूणां च । धर्मपरः कारुणिकः सूर्यासितशुक्रबुधजीवैः ॥१७॥ साधुः कल्यशरीरो विद्याधनसत्यसौख्यसम्पन्नः । बन्धुहितो बहुमित्रो बुधेन्दुकुजजीवभृगुपुत्रैः ॥ १८॥ तिमिरामयी दरिद्रः परान्नमभियाचते सदा दीनः । मलिनयति बन्धुवर्ग कुजार्किबुधजीवहिमकिरणैः ॥ १९ ॥ बहुशत्रुमित्रपक्षः परार्थहितकृद्विषमशीलः । एकस्थैरतिमानी बुधेन्दुकुजशुक्ररविपुत्रैः ॥२०॥ नृपमत्री नृपतिसमो गणनाथः सर्वलोकपूज्यश्च । एकः भवति नरश्चन्द्रेन्दुजजीवशनिशुक्रैः ।। २१ ॥ सुमनस्कः सोन्मादो राज्ञामतिवल्लभो विगतशोकः ।
निद्रातुरो दरिद्रः कुजगुरुबुधशुक्ररविपुत्रैः ॥ २२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां पञ्चग्रहयोगो नामाष्टादशोऽध्यायः ॥
एकोनविंशोऽध्यायः। विद्याधनधर्मरतः क्षामो बहुभाषको विकृष्टमतिः । एकभवनोपयातैव॒धेन्दुरव्यारगुरुशुः ॥१॥ दाता परकार्यकरश्चलस्वभावो विशुद्धसत्वश्च । रमते विजनोद्देशे रवीन्दुवक्रज्ञगुरुरविजैः ॥२॥ चोरः परदाररतः कुष्ठी स्वजनैर्निराकृतो मूर्खः । स्थानभ्रष्टो विसुतो बुधेन्दुरव्यारशनिशुः ॥३॥ नीचः परकर्मरतः क्षयरोगी श्वासकासपरिभूतः । निन्द्यः स्याद्वन्धूनां सितेन्दुरव्यारगुरुरविजैः ॥४॥ मत्री नृपस्य सुभगः क्षान्तियुतो भवति शोकपरितप्तः । अकलत्रो धनरहितो रवीन्दुबुधजीवसितसौरैः ॥५॥ तीर्थेषु सदा रमते पुत्रैर्नित्यं धनेन रहितश्च ।
वनपर्वतोपसेवी बुधाररविजीवशनिशुक्रः ॥६॥ १ विशिष्ट. २ कर्मकरः. ३ खास.
Aho ! Shrutgyanam