________________
अष्टादशोऽध्यायः।
४९ अल्पायुर्बन्धनभाग्दीनो भवतीह सर्वसुखहीनः । अकलत्रोऽसुतवित्तः सौरदिवाकरबुधेन्दुकुजैः ॥ ३॥ जात्यन्धो बहुदुःखी मातृपितृभ्यां सदैव सन्त्यक्तः । भवति नरो गेयरुचिः कुजेन्दुगुरुभार्गवाकैश्च ॥४॥ युद्धकुशलः समर्थः परवित्तहरः परोपतापी च । पिशुनश्चलश्च पुरुषः शनिशशिकुजजीवदिवसेशैः ॥ ५ ॥ मानार्थविभवहीनो मलिनाचारः पराङ्गनानिरतः। पञ्चभिरेकस्थैः स्यादिनेशशशिशुक्रशनिभौमैः ॥ ६॥ यत्रज्ञो बहुविभवो नृपसचिवो दण्डनायको वा स्यात् । ख्यातः शुभकीर्तियुतो बुधेन्दुरविजीवशुक्रैश्च ॥ ७॥ भीरुः प्रियसन्त्यक्तः सोन्मादो वञ्चनासु निपुणश्च । उग्रः परान्नभोजी बुधेन्दुगुरुसूर्यरविपुत्रैः ॥ ८॥ दीर्घो रोमशगात्रो मरणोत्साही सुखार्थसुतहीनः । स्यात्पञ्चभिरेकस्थै रविचन्द्रबुधार्किभृगुपुत्रैः ॥९॥ वाग्मीन्द्रजालनिरतश्चलचित्तः स्त्रीषु वल्लभो मतिमान् । बहुशत्रुर्विगतभयो रवीन्दुगुरुशुक्रमानुसुतैः ॥१०॥ कामी बहुतुरगनरः स्वीकृतसेनापतिर्विगतशोकः । राजप्रियोऽतिसुभगो बुधाररविजीवशुक्रैः स्यात् ॥ ११ ॥ नित्योद्विग्नो रोगी भिक्षां भुङ्क्ते गृहागृहं गत्वा । जीर्णमलीमसवासा रविकुजबुधजीवर विपुत्रैः ॥ १२ ॥ वधबन्धनरोगा? विद्वाँल्लोके सुपूजितो भवति । निःस्वो विकलशरीरः कुजशशिबुधशुक्रमन्दैः स्यात् ॥१३॥ व्याधिभिररिभिर्ग्रस्तः स्थानभ्रष्टोऽतिदुःखसन्तप्तः । भ्रमति क्षुभितः पुरुषः कुजार्किरविशुक्रशशितनयैः ॥१४॥ प्रेष्यो मूर्खः क्लीबो मलिनाचारोऽतिदुर्भगो विकलः । भवति नरो धनरहितः शशिकुजगुरुशुक्ररवितनयैः ॥१५॥ जलयत्रधातुपारदरसायनेष्वतिपटुः पुमान् भवति ।
एभिः प्रसिद्धकर्मा क्षितिसुतरविजीवसितसौरैः ॥ १६ ॥ १ पिशुनः खलश्च. २ भिरतः, ३ स्फीतः सेनापतिः.
५सारा.
Aho ! Shrutgyanam