________________
: सारावली । कुलटापतिः प्रगल्भः सर्पाक्षो नित्यमेव सोद्वेगः। जातः पुरुषोऽवश्यं कुजेन्दुयमभार्गवैर्भवति ॥ २६ ॥ विद्वान्विमातृपितृकः सद्रपो धनयुतोऽतिसुभगश्च । भवति नरो विगतार्बुिधगुरुशशिभार्गवैः सहितैः ॥ २७ ॥ कृतधर्मकीर्तिरग्र्यस्तेजस्वी बन्धुवल्लभो मतिमान् । नृपसचिवः प्रवरकविः शशिबुधजीवार्किभिः सहितैः ॥ २८ ॥ परदारगमनशीलो विशीलभार्यों विपन्नबन्धुश्च । प्राज्ञो लोकद्विष्टः स्यादिन्दुबुधार्किभृगुपुत्रैः ॥ २९ ॥ मात्रा रहितः सुभगस्त्वग्दोषी दुःखितो भ्रमणशीलः । बहुभाषी सत्यरतः शशिगुरुभृगुसौरिभिः सहितैः ॥ ३० ॥ स्त्रीकलहरुचिर्धनभाक्पूज्यो लोके च शीलसंपन्नः । भवति पुमान्निरुजतनुर्बुधारगुरुभांगवैः सहितैः ॥ ३१ ॥ शूरो विद्वान्वाग्मी धनरहितः सत्यशौचसंपन्नः । वादी द्वन्द्वसहिष्णुर्मतिमान्सहितैर्बुधारगुरुसौरैः ॥ ३२ ॥ स्यान्मल्लः परपुष्टः कठिनाङ्गो युद्धदुर्मदः ख्यातः । रमते च सारमेयैर्बुधारयमभार्गवैः सहितैः ॥ ३३॥ तेजस्वी वित्तयुतः स्त्रीलोलः साहसप्रियश्चपलः । भौमगुरुशुक्रसौरैरेकस्थैर्जायते कितवः ॥ ३४॥ मेधावी श्राद्धरतो रामासक्तो विधेयभृत्यश्च । । बुधजीवशुक्रसौरैरेकस्थैस्तीबसंयोगे ॥ ३५ ॥ इति कल्याणवर्मविरचितायां सारावल्यां चतुर्ग्रहयोगः सप्तदशोऽध्यायः ॥
. अष्टादशोऽध्यायः। . दुःखी बहुप्रपञ्चो जायाविरहेण तापितशरीरः । भवति पुमानेकस्थै रवीन्दुकुजजीवचन्द्रसुतैः ॥ १॥ परकर्मरतो नित्यं बन्धुसुहृद्भिः कृतो विगतसत्वः । क्लीबैर्याति च सख्यं रवीन्दुकुजशुक्रसौम्यैश्च ॥ २॥
१ द्वेष्टा. २ रुचिर. ३ शस्त्र, शास्त्र. ४ कामाचारो. ५ बन्धुसुहृद्धिकृतो, बन्धुसुहृदुःखितो.
Aho! Shrutgyanam