________________
सप्तदशोऽध्यायः । परदाररतश्चोरो विषमाङ्गो दुर्जनो विगतसत्वः । भवति प्रसवे पुरुषो रविसितभौमेन्दुजैः सहितैः ॥ १२ ॥ योद्धा प्राज्ञस्तीक्ष्णो नीचाचारः कविप्रधानश्च । .. मन्त्री च भूपतिर्वा बुधार्ककुजसौरिसंयोगे ॥ १३ ॥ सुभगः पूज्यो लोके धनवान् नृपसंमतो भुवि ख्यातः । रविभौमजीवशुऊरेकस्थै नीतिमान्पुरुषः ॥१४॥ सोन्मादो गणमान्यः सिद्धार्थों बन्धुमित्रसंपृक्तः । भानुकुजजीवसौरैः संयुक्तैर्वा नृपाभिमतः ॥१५॥ विकलो नीचाचारो विषमाक्षो बन्धुविद्विष्टः । . सूर्यकुजशुक्रसौरैः पराभवं सर्वतो याति ॥ १६ ॥ धनवान्सुखप्रधानः सिद्धार्थों बन्धुमान् प्रकृष्टश्च । भानुबुधजीवशुऊर्भवति पुमानेकराशिगतैः ॥१७॥ क्लीवाचारो मानी कलहरुचिः सहजवान् निरुत्साहः । अर्कार्किबुधसुरेज्यैरेकस्थैर्जायते पुरुषः ॥ १८ ॥ मुखरः सुभगः प्राज्ञो मृदुसौख्यः सत्वशौचसंपन्नः । धीरो मित्रसहायो रविबुधसित सौरिसंयोगे ॥ १९ ॥ लुब्धः कविः प्रधानः कारुकनाथोऽधिपश्च नीचानाम् । आदित्यार्किसितायें राज्ञा जातो भवेदिष्टः ॥ २० ॥ शास्त्रकुशलो नरेन्द्रः सुमहामत्रोऽथवा महाबुद्धिः । शशिकुजसोमजजीवैरेकस्थैर्यः पुमाञ्जातः ॥ २१ ॥ कलहरुचिर्निद्रालुर्नीचः स्याद्वर्धकीपतिः सुभगः । बन्धुद्वेष्टा न सुखी शशिकुजबुधभार्गवैः सहितैः ॥ २२ ॥ शूरो विमातृपितृको दुष्कुलजो बहुकलत्रमित्रसुतः। भवति सुकर्माभिरतः शशिकुजबुधसौरिसंयोगे ॥ २३॥ विकलाङ्गः सुकलत्रः सकलसहोऽतीव मानसंयुक्तः। प्राज्ञो बहुमित्रसुखः शशिकुजगुरुभार्गवैः सहितैः ॥ २४ ॥ बधिरो धनवाशूरः सोन्मादो वाक्पटुः स्थिरप्रकृतिः । मतिमानुदारचित्तो भौमेन्दुशनैश्चरसुरेज्यैः ॥ २५ ॥ १ योधः. २ सहजवाङ्. ३ कष्टसहो.
Aho! Shrutgyanam