________________
४६
सारावली । पापास्त्रयोऽपि मिलिताः कुर्वन्ति नरं सुदुर्भगं लोके । दारिद्यदुःखतप्तं गर्हितरूपं विनयहीनम् ॥ ३८ ॥ इति कल्याणवर्मविरचितायां सारावल्यां त्रिग्रहयोगो नाम षोडशोऽध्यायः ॥
सप्तदशोऽध्यायः। लिपिकरतस्करमुखरो रोगी मायाप्रपञ्चकुशलश्च । बुधरविभौमशशाकैरेकर्भगतैः पुमान्भवति ॥१॥ धनवान्वनितानिन्धस्तेजस्वी नीतिमान्विगतशोकः । कर्मसमर्थों निपुणः शशिकुजगुरुभास्करैः सहितैः ॥ २ ॥ आयोचितवाग्वृत्तिः सुखभाङ् निपुणोऽर्थसंग्रहणशीलः । विद्यासुतदारयुतः शशिकुजभृगुभास्करैः सहितैः ॥ ३॥ विषमशरीरो ह्रखो धनरहितो याचिताशनो मूर्खः । गम्यः सर्वस्य तथा रविशशिकुजसौरिसंयोगे ॥४॥ सौर्णिकः प्लुताक्षः शिल्पकरो वा महाधनो धीरैः । जातः स्यान्निरुजतनुः शशिज्ञगुरुभास्करैः सहितैः ॥ ५॥ विकलः सुभगो वाग्मी हस्खो नृपसंमतो मनुजः।। जातः स्यादेकस्थै रविशशिबुधभार्गवैः सहितैः ॥६॥ मातृपितृविप्रयुक्तो धनसौख्यविवर्जितो भ्रमणशीलः । भिक्षाशनोऽप्यनृतवाक् रवीन्दुसौम्यार्किभिर्नियतम् ॥ ७॥ सलिलमृगारण्यानां स्वामी स्यात्सौख्यभा भवति पूज्यः । शुक्रार्कगुरुशशाङ्करेकर्लगतैः पुमान् निपुणः ॥ ८॥ तामसनेत्रस्तीक्ष्णो बहुसुतवित्तो वराङ्गनासुभगः। सूर्येज्यचन्द्रसौरैरेकस्थैर्जायते पुरुषः ॥९॥ वनितासदृशाचारः पुरःसरोऽत्यन्तदुर्बलशरीरः । भीरुः सर्वत्र भवेदकेंन्दुसितासितैः सहितैः ॥ १० ॥ शूरोऽथ सूत्रकारश्चक्रधरो वा विपन्नदारधनः । दुःखार्णवोऽटनपरः सुसङ्गतैरर्कजीवबुधभौमैः॥ ११॥ । १ उग्रो हुतभुक्तीव्रः. २ सौवर्णकः. ३ वीरः, ४ गाम्भीर्यो रुचिर. ५ त्रस्ताक्षो भूपसंमतो, पिङ्गाक्षो भूपसंमतो. ६ नृपतिपूज्यः. ७ चरो.
Aho ! Shrutgyanam