________________
४५
षोडशोऽध्यायः। लिपिकरपुस्तकवाचकपुरोधसां भवति जन्म सुकृतैश्च ।
दैवविदां पुरुषाणां शशिभार्गवसौरिसंयोगे ॥ २५ ॥ 'सुकविः क्षोणीनाथः सधुवतिपतिः परार्थ उद्युक्तः । गान्धर्ववेदकुशलः स्यादुधगुरुभूसुतैः सहितैः ॥ २६ ॥ अकुलीनो विकलाङ्गश्चपलो दुष्टश्च जायते मनुजः । मुखरो नित्योत्साही कुजबुधभृगुनन्दनैः सहितैः ॥ २७ ॥ प्रेष्यः श्यामलनेत्रः प्रवासशीलो भवेद्वदनरोगी। रमते प्रहसनशीलैबुंधार्किरुधिरैः सहैकस्थैः ॥ २८॥ नृपतीष्टः सत्सुतवान्विलासिनीभ्यः सदाप्तबहुसौख्यः । सकलजनानन्दकरो भार्गवगुरुभूमिजैः सहितैः ॥ २९ ॥ नृपसंमतः क्षताङ्गो नीचाचारो विगहितो मित्रैः । भवति नरो विगतघृणः सुरेज्यकुजसौरिसंयोगे ॥ ३०॥ चारित्रविहीनायाः पुत्रो भर्ता भवेत्सुखविहीनः । नित्यं प्रवासशीलः संयुक्तैः सौरिकुजशुक्रैः ॥३१॥ सुतनुः क्षपितारिगणो नृपतिः सुभगस्तथा पृथुलकीर्तिः । बुधगुरुशुक्रः सहितैर्भवति नरः सत्यवचनश्च ॥ ३२ ॥ स्थानधनैश्वर्ययुतं प्राज्ञं बहुभोगिनं स्वदाररतम् । धृतिसौख्यरतं सुभगं जनयन्ति बुधार्कजीवाख्याः ॥ ३३ ॥ मुखरो धूर्तोऽनृतवाक् परयुवतिरतो भवेद्विषमशीलः । बुधशुक्रसूर्यतनयैः कलास्वभिज्ञः स्वदेशरतः ॥ ३४॥ न्यूने कुलेऽपि जातो भवति नरो भूपतिर्विपुलकीर्तिः । गुरुभार्गवदिनकरजैरेकस्थैः शीलसम्पन्नः ॥ ३५॥ पापैर्युक्ते चन्द्रे मातुरभावः प्रकीर्तितप्रायः । सूर्ये पितुस्तथान्यैः शुभं वदेन्मिश्रितैर्मिश्रम् ॥ ३६॥ प्रायः शुभाः समेता धनभूतियशोन्वितं नृपतिचेष्टम् । उत्पादयन्ति मनुजं भूमण्डलमण्डनं श्रेष्ठम् ॥ ३७॥
१ विपुलकीतिः. २ मान. ३ युतं.
Aho! Shrutgyanam