________________
४४
सारावली । अतितप्तो वाचाटो भ्रमणरुचिः प्रोषितो गुरुभिः ।। स्त्रीहेतोः सन्तप्तः शशिसुतरविभार्गवैः सहितैः ॥ ११ ॥ क्लीबाचारो द्वेष्यः सर्वजितो बन्धुभिः परित्यक्तः । सौरादित्येन्दुसुतैरेकस्थैर्जायते पुरुषः ॥ १२ ॥ दुर्बलचक्षुः शूरः प्राज्ञो निःस्वश्च भूपतेः सचिवः । परकार्यरतो नित्यं भार्गवगुरुभास्करैः सहितैः ॥ १३ ॥ असदृशकायः पूज्यः स्वजनद्वेष्यः सुदारसुतमित्रः । नृपतीष्टो विगतभयो जीवार्कजदिनकरैः सहितैः ॥ १४ । शत्रुभयात्सोद्वेगो मानकलाकाव्यवर्जितो मनुजः । कुत्सितचरितः कुष्ठी सितार्किरविसंयुतैर्भवति ॥ १५ ॥ पापकरा जायन्ते नीचाचाराः सुहृत्स्वजनहीनाः । आजीविनश्च पुरुषाः शशाङ्कबुधभूमिजैः सहितैः ॥ १६ ॥ विनताङ्गः स्त्रीलोलश्चोरः कान्तश्च संमतः स्त्रीणाम् । भौमशशाङ्कसुरेज्यैरेकस्थै श्वण्डरोषश्च ॥ १७॥ दुःशीलायाः पुत्रः पतिश्च तस्याः सदैव निर्दिष्टः । कुजभृगुशशिभिः सहितैर्धमणरुचिः शीतभीतश्च ॥ १८ ॥ बाल्ये मृतजननीकः क्षुद्रो विषमश्च लोकविद्विष्टः । जायेत नरो योगे भूसुतशशिभास्करसुतानाम् ॥ १९॥ धनवान्कल्यो वाग्मी तेजस्वी ख्यातिमान्विपुलकीर्तिः । बहुपुत्रभ्रातृयुतो बुधेन्दुसुरपूजितैर्युक्तैः ॥ २० ॥ विद्यासंस्कृतमतिरपि नीचाचारः पुमान्भवेजातः । सौम्यो धनप्रलुब्धो बुधभार्गवचन्द्रसंयोगे ॥ २१॥ अस्वस्थो विकलाङ्गः प्राज्ञो वाग्मी सुपूजितः क्षितिपः । भवति नरः संयोगे सौरेन्दुशशाङ्कपुत्राणाम् ॥ २२॥ साध्वीतनयः प्राज्ञः कलास्वभिज्ञो बहुश्रुतः साधुः । भार्गवगुरुशशियोगे जातः सुभगो भवेत्पुरुषः॥ २३॥ शास्त्रार्थतत्त्वबुद्धिवृद्धस्त्रीसङ्गतो विगतरोगः ।
शशिवाचस्पतिसौरैरेकस्थैर्यामवृन्दपतिः ॥ २४ ॥ -१ अभिशस्तो. २ व्रणिताङ्गः. ३ भीरुश्च. ४ से?.५ अस्वातच्यो विकलः. ६ रोषः.
Aho ! Shrutgyanam