________________
षोडशोऽध्यायः । दारुविदारणदक्षः क्षुरचित्राश्मादिकर्मशिल्पी च । मल्लोऽटनः पशुपतिः शनिसितयोगे पुमान् भवति ॥ २२ ॥ उक्तं फलं गगनगा यद्यन्योन्यगणस्थिताः । अधमादि विकल्पेन कुर्वन्ति विकृति तथा ॥ २३ ॥ इति कल्याणवर्मविरचितायां सारावल्यां द्विग्रयोगो नाम पञ्चदशोऽध्यायः ॥
षोडशोऽध्यायः। निर्लजः पापरतो यत्रज्ञः शत्रुदारणे शूरः । अश्मक्रियासु कुशलः सहस्थितैः सूर्यशशिभौमैः ॥ १॥ तेजस्वी निपुणमतिः शास्त्रकलागोष्ठिपानरतः । नृपकृत्यकरो धीरो रविशशिशशिजैः सहैकस्थैः ॥ २॥ क्रुद्धो मायानिपुणः सेवाकुशलो विदेशगमनरतः। मेधावी चपलमतिः सहस्थितैरर्कशशिजीवैः ॥३॥ परधनहरणे निपुणः परदाररतश्च शास्त्रनिपुणश्च । रविचन्द्रदैत्यपूज्यैरेकस्थैर्जायते मनुजः ॥४॥ कामे विवादकुशलो मूर्खः परतत्रगो दरिद्रश्च । सूर्यनिशाकररविजैरेकस्थैर्जायते मनुजः ॥ ५ ॥ भवति ख्यातो मलः साहसिको निष्ठुरो विगतलजः । धनसुतकलत्ररहितः सहस्थितैरर्ककुजसौम्यैः ॥ ६॥ वचसि निपुणो महार्थः क्षितिपतिमत्री च भूपतिर्वाऽपि । सत्यवचनः प्रचण्डः सहस्थितीमगुरुसूर्यैः ॥ ७॥ नयनातुरः कुलीनः सुभगो वाक्शल्यसंयुतो मनुजः । भृगुभौमदिवसनाथैः सहस्थितैः स्याद्विभवयुक्तः ॥८॥ विकलाङ्गो धनरहितो नित्यं रोगान्वितो मनुजः । खजनरहितोऽतिमूर्खः क्षितिजार्कजभानुभिः सहितैः ॥९॥ नेत्रातुरोऽतिधनवान् मूर्खः शास्त्रादिशिल्पकाव्यरतः । वाचस्पतिबुधसूर्यरेकेगतैर्लिंपिकरः पुरुषः ॥ १० ॥ १अखिल. २ रतो. ३ कामविवादे.४ चमूपतिः. ५ शास्त्रकथाकाव्यगोष्टिशिल्परतः.
Aho! Shrutgyanam