SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सारावली । दृढसौहृदो विनीतः खबन्धुसंमानवर्धनेशश्च ।। गुर्विन्द्वोः शुभशीलः सुरद्विजेभ्यो रतो भवेत्पुरुषः ॥१०॥ स्रग्धौताम्बरयुक्तः क्रियाविधिज्ञः कुलप्रियोऽत्यलसः । क्रयविक्रयेषु कुशलः शशिभार्गवयोः सदा योगे ॥ ११॥ जीर्णवेधूजनरमणो गजाश्वसम्पादको विगतशीलः । वश्यो विधनः पुरुषः पराजितः स्याच्छशाङ्कशनियोगे ॥ १२ ॥ स्त्रीदुर्भगोऽल्पवित्तः सुवर्णलोहप्रकारकः स्थपतिः । दुष्टस्त्रीविधवानां कुजबुधयोरौषधक्रियानिपुणः ॥ १३॥ शिल्पश्रुतिशास्त्रज्ञो मेधावी वाग्विशारदो मतिमान् । अस्त्रप्रियप्रधानः सुरगुरुकुजयोः समागतयोः ॥ १४ ॥ पूज्यो गणप्रधानो गणितज्ञः परयुवतिभी रतो धूर्तः । द्यूतानृतशाठ्यरतो विटैश्च सितरुधिरसंयोगे ॥ १५ ॥ धात्विन्द्रजालकुशलः प्रवञ्चकस्तेयकर्मकुशलश्च । कुजसौरयोर्विधर्मः शस्त्रविषघ्नः कलिरुचिः स्यात् ॥ १६ ॥ . नृत्तविधेर्विज्ञाता प्राज्ञोऽपि च गेयशस्त्रविन्मनुजः । बुधगुरुयोगे मतिमान्सौख्ययुतो जायतेऽवश्यम् ॥ १७॥ अतिशयधनो नयज्ञो बहुशिल्पो वेदवित्सुवाक्यः स्यात् । गीतज्ञो हास्यरतिर्बुधसितयोर्गन्धमाल्यरुचिः ॥१८॥ ऋणवान् डॅम्भप्रायः प्रपञ्चकः सत्कविर्गमनशीलः । निपुणः शोभनवाक्यो बुधशनियोगे पुमान् भवति ॥ १९॥ जीवति विद्यावादैर्विशिष्टधर्मस्थितः प्रमाणयुतः । जीवसितयोर्मनुष्यो विशिष्टदारो भवेन्मतिमान् ॥ २० ॥ शूरो वित्तसमृद्धो नगराधिपतियशस्वी च । शनिजीवयोः प्रधानः श्रेणिसभाग्रामसंघानाम् ॥ २१ ॥ १ संमानकृद्धनेशश्च. २ हितो. ३ धूपां. ४ कवि. ५ वधूनां. ६ सम्पालको. ७ शिल्पी. ८ योगे. ९ युवतिको. १० विटः सिते रुधिरसंयुते भवति. ११ प्रपञ्चकस्तोयकर्म. १२ वाद्य. १३ गुणवान्. १४ दम्भ. १५ वेद. १६ भवेद्धनवान्, १७ नगराधिपतिः सुखी यशस्वी च. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy