________________
पञ्चदशोऽध्यायः । सर्वंसहः सुभद्रः समकायः सुस्थिरो विपुलसत्वः । नात्युच्चः परिपूर्णो विद्यायुक्तो भवेदुभयचर्याम् ॥ ११ ॥ सुभगो बहुभृत्यधनो बन्धूनामाश्रयो नृपतितुल्यः । नित्योत्साही हृष्टो भुङ्क्ते भोगानुभयचर्याम् ॥ १२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां वेशिवाश्युभयचर्यायां चतुर्दशोध्यायः ।.
पञ्चदशोऽध्यायः । यवनाचार्यैर्वृद्धैर्द्विग्रहयोगेषु यत्फलं प्रोक्तम् । तदहमपहाय मत्सरमधुना वक्ष्ये विशेषेण ॥१॥ युवतीनां वशगः स्यादविनीतः कूटवित्पृथुलवित्तः । आसवविक्रयकुशलो रव्युडुपत्योः क्रियानिपुणः ॥ २॥ ओजस्वी साहसिको मूल् बलसत्वसंयुतोऽनृतवाक् । पापमतिर्वधनिरतो रविकुजयोः स्यात् प्रचण्डश्च ॥३॥ सेवाकृदस्थिरधनो रविज्ञयोः प्रियवचा यशोर्थः स्यात् । आर्यः क्षितिपतिदयितः सतां च बलरूपवित्तविद्यावान् ॥ ४ ॥
बहुधर्मो नृपसचिवः समृद्धिमान्मित्रसंश्रयाप्तार्थः । सूर्ये बृहस्पतियुते भवेदुपाध्यायसंज्ञश्च ॥ ५॥ शस्त्रप्रहरणविद्याशक्तियुतो नेत्रदुर्बलश्वरमे । रङ्गज्ञो रविसितयोः स्त्रीसङ्गालब्धवन्धनः ॥६॥ धातुज्ञो धर्ममयः स्वधर्मनिरतः प्रणष्टसुतदारः । निजवंशगुणैः शुद्धः शनिरव्योरल्पशीलश्च ॥ ७ ॥ शूरो रणप्रतापी मल्लोऽसृग्वेदनातदेहश्च ।। मृचर्मधातुशिल्पी कूटज्ञश्चन्द्रकुजयोगे ॥ ८॥ काव्यकथास्वतिनिपुणः सधनः स्त्रीसंमतः सुरूपश्च । -स्मितवदनः शशिबुधयोधर्मरुचिः स्याद्विशिष्टगुणः ॥ ९ ॥
१ सुसमहक, २ परिपूर्णः सिंहग्रीवो भवेदुभयचर्याम्. ३ कूटकृत् प्रलघुचित्तः. ४ निष्ठो... ५ सुबुद्धिमान्.. .६ चरभे. ७ जनः. ८ खकर्म. ९ सिद्धाः १० वेदनाप्तदाह. ११ रतिः.
Aho! Shrutgyanam