________________
: सारावली ।। अधियोगादयोऽन्येऽपि मयात्रैव न कीर्तिताः । नृपयोगां यतस्ते हि वक्ष्ये तत्रैव तानहम् ॥ ३३ ॥ इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रविधिर्नाम त्रयोदशोऽध्यायः ॥
चतुर्दशोऽध्यायः । सूर्याद्व्ययगैाशिद्वितीयगैश्चन्द्रवर्जितैवेशिः । उभयस्थितैर्ग्रहेन्द्रैरुभयचरी नामतः प्रोक्ता ॥१॥ मन्ददृशं स्थिरवचनं परिभूतपरिश्रमं नतोवंतनुम् । कथयति यवनाधिपतिर्वेशिसमुत्थं तथा पुरुषम् ॥ २॥ वसुसंचयवित्ससुहृत्स्याद्वेशौ सुरगुरौ भवति जातः । भीरुः कार्योंद्विग्नो लघुचेष्टो भृगुसुते पराधीनः ॥३॥ परिकर्मको दरिद्रो मृदुर्विनीतो बुधे सलजश्च । मार्गलघुः क्षितिपुत्रे परोपकारी नरो वेशौ ॥४॥ परदाररतश्चण्डो वृद्धाकारः शठो घृणी । भवेन्मनुष्यः सधनो याते वेशिं शनैश्चरे ॥ ५॥
इति वेशिप्रकरणम् ।। उत्सृष्टवचाः स्मृतिमानुद्योगयुतो निरीक्षते तिर्यक् । पूर्वशरीरे पृथुलो नृपतिसमः सात्विको वाशौ ॥६॥ धृतिसत्वबुद्धियुक्तो भवति गुरौ वाशिके पवनसारः। शूरः ख्यातो गुणवान् यशस्करो भार्गवे पुरुषः ॥७॥ प्रियभाषी रुचिरतनुर्वाश्यां स्याद्वोधने पराज्ञाकृत् । । सङ्ग्रामे विख्यातो भूमिसुते नान्यवाक्यश्च ॥ ८॥ वणिक् कुलस्वभावः स्यात्परद्रव्यापहारकः । गुरुद्वेषी सुनिस्त्रिंशो गते वाशिं शनैश्चरे ॥९॥ संनिरीक्ष्य रवेवीर्य ग्रहाणां चापि तत्त्वतः ।
राश्यंशसङ्गमात्सर्व फलं ब्रूयाद्विचक्षणः ॥ १० ॥ . १ येऽपि. २ वाशी तद्धनगैश्चन्द्रवर्जितैः. ३ र्वेशी. ४ कर्कशो. ५ मार्गनः. ६ वचनसारः. ७ बलवान्. ८ भाग्यश्च. .९ खल.
Aho! Shrutgyanam