________________
त्रयोदशोऽध्यायः। उत्तमरामः सुभगो विवादशीलः शुचिर्भवेद्दक्षः । व्यायामी रणशूरः सितारयोर्मध्यगे चन्द्रे ॥ २२ ॥ कुत्सितयोषिमणो बहुसंचयकारको व्यसनतप्तः । क्रोधी पिशुनो रिपुमान् यमारयोः स्यादुरुधुरायाम् ॥ २३ ॥ धर्मपरः शास्त्रज्ञो वाचालः सत्कविर्धनोपेतः । त्यागयुतो विख्यातो बुधगुरुमध्ये स्थिते चन्द्रे ॥ २४ ॥ प्रियवाक् सुभगः कान्तः प्रवृत्तगेयादिषु प्रियो भवति । सेव्यः शूरो मत्री बुधसितयोर्दुरुधुरायोगे ॥ २५ ॥ देशाद्देशं गच्छति वित्तपरो नातिविद्यया सहितः । चन्द्रेऽन्येषां पूज्यः स्वजनविरोधी ज्ञमन्दयोर्मध्ये ॥ २६ ॥ धृतिमेधाशौर्ययुतो नीतिज्ञः कनकरत्नपरिपूर्णः । ख्यातो नृपकृत्यकरो गुरुसितयोर्दुरुधुरायोगे ॥ २७॥ सुखनयविज्ञानयुतः प्रियवाग्विद्वान् धुरंधरोऽप्यायः । शान्तो धनी सुरूपश्चन्द्रे गुरुभानुजान्तस्थे ॥ २८॥ वृद्धचरितं कुलाय्यं निपुणं स्त्रीवल्लभं धनसमृद्धम् । नृपसत्कृतं बहुधनं कुरुते चन्द्रः सितासितयोः ॥ २९ ॥
इति दुरुधुराप्रकरणम् । सूर्यात् केन्द्रादिगतो निशाकरः स्वल्पमध्यभूयिष्ठान् । कुर्यात्क्रमेण धनधीनैपुणविज्ञानविनयांश्च ॥ ३० ॥ औत्पातिकः कृशतनुर्निशि चाप्यदृश्यो
दृश्यो दिवा शिशिरगुर्भयशोकदः स्यात् । एवं स्थितः समफलं पृथिवीपतित्वं ___यातोऽन्यथा प्रकुरुते परिपूर्णमूर्तिः ॥ ३१ ॥ लग्नादुपचयसंस्थैः शुभैः समस्तैर्महाधनो द्वाभ्याम् । मध्यं चैकेनाधममेवं चन्द्रादपि तदूनः ॥ ३२ ॥
१ उत्तमरामा, उत्तमकामः. २ द्रविणो. ३ रिपुहा यमारयोः. ४ उत्पातिकः, अल्पात्मजः. ५ कृष्णे तु शीतकिरणो.
Aho! Shrutgyanam