________________
सारावली । विक्रमवित्तप्रायो निष्ठुरवचनश्चमपतिश्चण्डः । हिंस्रो दम्भविरोधी सुनफायां भौमसंयोगे ॥ १० ॥ श्रुतिशास्त्रगेयकुशलो धर्मपरः काव्यकृन्मनस्वी च । सर्वहितो रुचिरतनुः सुनफायां सोमजे भवति ॥ ११ ॥ विद्याचार्य ख्यातं नृपतिं नृपतिप्रियं वाऽपि । सुकुटुम्बधनसमृद्धं सुनफायां सुरगुरुः कुरुते ॥ १२ ॥ स्त्रीक्षेत्रवित्तविभवश्चतुष्पदाढ्यः सुविक्रमो भवति । नृपसत्कृतः सुधीरो दक्षः शुक्रेण सुनफायाम् ॥ १३ ॥ निपुणमतिमपुरैर्नित्यं संपूजितो धनसमृद्धः । सुनफायां रविपुत्रे क्रियासु गुप्तो भवेद्धीरः ॥ १४ ॥
इति सुनफाँप्रकारः। चोरस्वामी धृष्टः स्ववंशो मानी रणोत्कटः क्रोधी । श्रेष्ठः श्लाघ्यः सुतनुः कुजेऽनफायां सुलाभश्च ॥ १५ ॥ गन्धर्वलेखनपटुः कविः प्रवक्ता नृपाप्तसत्कारः । रुचिरतनुस्त्वनफायां प्रसिद्धकर्मा बुधेन भवेत् ॥ १६ ॥ गाम्भीर्यसत्वमेधास्थानरतो बुद्धिमान् नृपाप्तयशाः । अनफायां त्रिदशगुरौ संजातः संत्वविद्भवति ॥ १७॥ युवतीनीमतिसुभगः प्रणयी क्षितिपस्य 'गोपतिः ख्यातः । कान्तः कनकसमृद्धस्त्वनफायां भार्गवे भवति ॥ १८॥ विस्तीर्णभुजो नेता गृहीतवाक्यश्चतुष्पदसमृद्धः । दुर्वनिताया भक्तो गुणसहितश्चार्कपुत्रेण ॥ १९॥
इत्यनफाप्रकरणम् । आनृतिको बहुवित्तो निपुणोऽतिशठोऽधिको लुब्धः । वृद्धासतीप्रसक्तः कुलाग्रणीः शशिनि भौमबुधमध्ये ॥ २० ॥ ख्यातः कर्मसु विभवी बहुजनवैरस्त्वमर्षणो हृष्टः । कुलरक्षी कुजगुर्वोः सङ्ग्रहशीलः शशिनि मध्ये ॥ २१ ॥ १ रतः. २ वित्तगृहवां. ३ प्रकरणम्. ४ वंश.५ सेव्य. ६ प्रगल्भश्च. ७ गान्धर्व. ८ शुभो. ९ सत्कविर्भवति. १० युवतिजनानां. ११ भोगवान् कान्तः. १२ कनकसमृद्धश्चण्ड. १३ भर्ता । दुर्वनितायां सक्तस्त्वनफायामर्कपुत्रेण. १४ गुणाधिको.
Aho! Shrutgyanam