SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ त्रयोदशोऽध्यायः। त्रयोदशोऽध्यायः। सुनफाऽनफादुरुधरा भवन्ति योगाः क्रमेण रविरहितैः । वित्तान्त्योभयसंस्थैः कैरववनबान्धवाद्विहगैः ॥१॥ एते न यदा योगाः केन्द्रग्रहवर्जितः शशाङ्कश्च । केमद्रुमोऽतिकष्टः शशिनि समस्तग्रहादृष्टे ॥२॥ सुनफानफासरूपास्त्रिंशद्योगा(३०)स्त्रिसंगुणा षष्टिः (१८०) संख्या दौरुधुराणां प्रस्तारविधौ समाख्याताः ॥ ३॥ श्रीमान् स्वबाहुविभवो बहुधर्मशीलः शास्त्रार्थविद्वंहुयशाः स्वगुणाभिरामः । शान्तः सुखी क्षितिपतिः सचिवोऽथ वा स्यात् सूतः पुमान् विपुलधीः सुनफाभिधाने ॥४॥ वाग्मी प्रभुर्द्रविणवानगदः सुशीलो - भोक्तानपानकुसुमाम्बरंभामिनीनाम् । ख्यातः समाहितगुणः सुखशस्तचित्तो _योगे निशाकरकृते त्वनफे सुवेषः ॥ ५॥ वाग्बुद्धिविक्रमगुणैः प्रथितः पृथिव्यां स्वातन्त्र्यसौख्यधनवाहनभोगभोगी। दाता कुटुम्बंधनपोषणलब्धखेदः सद्वृत्तवान् दुरुधुराप्रभवो धुरिस्थः ॥ ६ ॥ कान्तान्नपानगृहवस्त्रसुहृद्विहीनो ___ दारिद्यदुःखगददैन्यमलैरुपेतः । प्रेष्यः खलः सकललोकविरुद्धवृत्तिः केमद्रुमे भवति पार्थिववंशजोऽपि ॥७॥ केन्द्रादिस्थैर्ग्रहयोगाः कीर्तिता येऽनफादयः । तान् प्रधानान् समानान् स्वांश्चन्द्ररूपान्विचिन्तयेत् ॥८॥ भौमादीनां बलं देशं जातस्य च कुलं बुधः । विज्ञाय प्रवदेत् सम्यक् सुनफादिकृतं फलम् ॥ ९॥ १ च सर्व. २ पृथु. ३ सुगुणो. ४ कान्तः. ५ कामिनीनाम्. ६ वित्तो. ७ भागी. ८ दान्तः. ९ जनपोषण. १० बन्धुगृहवस्त्र.. ४ सारा० . Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy