________________
सारावली ।
शीर्षोदयेषु राशिषु सर्वैर्गगनाधिवासिभिः सूतौ । प्रकृतिस्यैश्चारिष्टं विक्रियेते घृतमिवाग्निष्ठम् ॥ ५॥ तत्काले यदि विजयी शुभग्रहः शुभनिरीक्षितो वर्गे । तेर्जयति सर्वरिष्टं मारुत इव पादपान् प्रबलः ॥ ६ ॥ परिविष्टो गगनचरः क्रूरैश्च विलोकितो हरति पापम् । स्नानं सन्निहितानां कृतं यथा भास्करग्रहणे ॥ ७ ॥ स्निग्धमृदुपवर्नभाजो जलंदाच तथैव खेचराः शस्ताः । स्वस्थः क्षणाच रिष्टं शमयन्ति रजो यथाम्बुधारौघः ॥ ८ ॥ उदये चागस्त्यमुनेः सप्तर्षीणां मरीचिपुत्राणाम् । सर्वारिष्टं नश्यति तम इव सूर्योदये जगतः ॥ ९ ॥ अजवृषककिंविलग्ने रक्षति राहुः समस्तपीडाभ्यः । पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ १० ॥ नेन भङ्गमपरे सरोजजन्मातिविस्मयं कुरुते । तज्ज्ञेः कष्टमनिष्टं समतटदेशे यथा किरंटः ॥ ११ ॥ बहवो यदि शुभफलदाः खेटास्तत्रापि शीर्यते रिष्टम् । सूर्यात् त्रिकोण इन्दौ यथैव यात्रा नरेन्द्रस्य ॥ १२ ॥ गुरुशुक्रौ च केन्द्रस्थौ जीवेद्वर्षशतं नरः । गृहानिष्टं हिनंस्त्याशु चन्द्रानिष्टं तथैव च ॥ १३ ॥ बन्ध्वास्पदोदयविलग्नगतौ कुलीरे
३६.
गीर्वाणनाथसचिवः सकलश्च चन्द्रः । जूके रवीन्दुतनयावपरे च लाभे
2
दुश्चिक्यशत्रुभवनेष्वमितं तदायुः ॥ १४ ॥ एते सर्वे भङ्गा मया निरुक्ताः पुरातनाः सिद्धाः । यैज्ञातैर्देवविदो नरेन्द्र वाल्लभ्यमायान्ति ॥ १५ ॥
इति कल्याणवर्मविरचितायां सारावत्यां अरिष्टभङ्गो नाम द्वादशोऽध्यायः ॥
१. विलीयते २ वर्जयति. ३ हितायां. ४ पवनविरजो. ५ जलजा. ६ स्वस्थाः . १ शास्ति... ८ शमयति हि. ९ यथाम्बुधराः १० पूर्वाणां ११ यातैस्त्रिभागमपरैः.
११ तज्जः १३. सरदः १४ भिनत्त्याशु.
Aho! Shrutgyanam