________________
दशमोऽध्यायः ।
घटसिंहवृश्चिकोदय कृतस्थितिर्जीवितं हरति राहुः । पापैर्निरीक्ष्यमाणः सप्तमितैर्निश्चितं वषैः ॥ १०८ ॥ केतोरुदयं पूर्वः पचादुल्कादिपवननिर्घाताः । रौद्रे सापमुहूर्त प्राणैः सन्त्यज्यते जन्तुः ॥ १०९ ॥ क्षीणं यदा शशाङ्कं पश्येद्राहुः समागतं पापैः । मारयति तदा दिवसैर्निर्व्याजं कतिपयैरेव ॥ ११० ॥ कुम्भे दिशति शशाङ्को भागे मृत्युं तथैकविंशाख्ये । सिंहे च पञ्चमेशे वृ॑षे च नवमे तथैवोक्तः ॥ १११ ॥ अलिनि त्रिविंशयुक्ते मेषे च तथाष्टमे दिशति मृत्युम् । कर्कटके द्वाविंशे तुलिनि चतुर्थे मृगे विंशे ॥ ११२ ॥ कन्यायां प्रथमेशे धनुर्धरेऽष्टादशे झषे दशमे । मिथुने च द्वाविंशे शशी प्रसूतस्य मरणकरः ॥ ११३ ॥ ये भुक्ताः शशिनोंशा जन्मनि वर्षैर्गतैस्तु तावद्भिः । मरणं हि जन्मभाजामप्यन्तकबद्धरक्षाणाम् ॥ ११४ ॥ एवं सर्वप्रयत्नेन जायमानस्य देहिनः । होरास्थानांनि केन्द्राणि चिन्तनीयानि तद्यथा ॥ ११५ ॥ चिन्तयेज्जायमानस्य स्थानराशिषु नित्यशः । बृहस्पतिर्नृणां जीवस्तर्यं नित्यं बृहस्पतेः ॥ ११६ ॥ पञ्चदशषद्समेतश्चत्वारिंशत्तथैकविंशच्च ।
१३.३
शतमर्थ चत्वारिंशत् षष्टिस्त्रिंशत् क्रमायु होरायाः ॥ ११७ ॥ तृतीयचतुर्थपञ्चमसप्तमनवमदशमैकादशगृहेषु जीर्वस्थितौ वर्षाः ।
इति कल्याणवर्मविरचितायां सारावल्यां अरिष्टाध्यायो दशमः ॥
१ सति च मुहूर्ते. २ तथैकविंशेंशे ३ क्रूरेण वृषे मृतिर्मरणभागे. ४ ये तूक्ताः. ५ स्थानेषु. ६ तस्मान्मृत्युं. ७ तथैव विंशश्च ८ त्रिंशच्चत्वारिंशत्. ९ पञ्चाशदेव यथोक्तहोरायाः. १० वोत्थिता. ११ प्रोक्ताः सहजे तुर्ये पञ्चम के सप्तमे च नवमे च । दशमे चैकादशके गृहेषु जीवस्थितौ वर्षाः ॥ ११८ ॥
Aho! Shrutgyanam