________________
सारावली।
एकादशोऽध्यायः । संभूतारिष्टाख्या भङ्गस्तेषां यथा भवेद्योगैः । तानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र ॥१॥ उडुपतिकृतरिष्टानां भङ्गस्तावन्निरूप्यते पूर्वम् । सम्यक् शेषाणामपि यथामतं ब्रह्मपूर्वाणाम् ॥ २॥ सर्वैर्गगनभ्रमणैदृष्टश्चन्द्रो विनाशयति रिष्टम् । आपूर्यमाणमूर्तिर्यथा नृपः सन्नयेद्वेषम् ॥ ३ ॥ चन्द्रः सम्पूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे । रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥४॥ परमोच्चे शिशिरतनुभृगुतनयनिरीक्षितो हरति रिष्टम् । सम्यग्विरेकवमनं कफपित्तानां यथादोषम् ॥ ५ ॥ चन्द्रः शुभवर्गस्थः क्षीणोऽपि शुभेक्षितो हरति रिष्टम् । फलमिव महातिसारं जातीफलवल्कलक्कथितम् ॥ ६ ॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्या हरन्त्यरिष्टफलम् । पापरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ ७॥ युक्तः शुभफलदायिभिरिन्दुः सौम्यैर्निहन्त्यरिष्टानि । तेषामेव त्र्यंशे लवणसुतिपूरवच्छ्रवणरोगम् ॥ ८॥ आपूर्यमाणमूर्तिद्वादशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तकाभ्यासो यथा गुदजम् ॥ ९॥ सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो हेन्ति । रिष्टं न वीक्षितोऽन्यैः कुलाङ्गनाऽकुलमिवान्यगता ॥ १० ॥ क्रूरभवने शशाङ्को भवनेशनिरीक्षितस्तदनुवर्गे । रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन ॥ ११ ॥ जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम् । रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः ॥ १२ ।। जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम् । घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम् ॥१३॥ १ भूतानतस्तत्र. २ सम्यक्. ३ शेषाणामपि पश्चात्. ४ सुनयविद्वेष्टन्. ५ पित्तकफानां. ६ दाडिम. ७ सवैर्निहन्त्यरिष्टानि. ८ शूलम्. ९ हरति. १० जन्मेशो लग्नेश्वरदृष्टः सर्व.
Aho ! Shrutgyanam