________________
३२
सारावली।
यदि होरागतः शुक्रः केन्द्रेष्वन्यतमे गुरुः ।। नैधने न च पापः स्यात् स विशं जीवते शतम् ॥ ९५ ॥ राशौ कर्कटहोरायां गुरुशुक्रौ समन्वितौ । गुरुश्चन्द्रयुतो वाऽपि निधने न च कश्चन ॥ ९६ ॥ न च केन्द्रगताः पापा न त्रिकोने न नैधने । तस्यायुरमरप्रख्यं निश्चयेन च कीर्त्यते ॥ ९७ ॥ निधनास्तव्ययलग्नत्रिकोणगाः क्षीणचन्द्रसंयुक्ताः । पापा बलिनः शुभदैरदृश्यमाना गतायुषः प्रायः ॥ ९८॥ योगे बलिनः स्थानं स्खं वा लग्नं गतेऽपि वा चन्द्रे । बलवति पापैदृष्टे वर्षान्ते मृत्युकालः स्यात् ॥ ९९ ॥ रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिस्तथैकस्थैः । रविशनिभौमशशाकैमरणं खलु पञ्चभिवः ॥१०० ॥ रविणा युक्तः शशिजः सौम्यैदृष्टो विनाशयति नूनम् । एकादशभिवषैर्देवाङ्केऽपि स्थितं जातम् ॥ १०१॥ लग्ने रविमन्दकुंजैः शुक्रगृहे सप्तमे शशी क्षीणः । दृष्टो न देवगुरुणा सप्तभिरब्दैविनाशयति ॥१०२॥ केन्द्रे रविमुषिततनुः क्षितिसुतमन्दावलोकितोऽथ युतः । वर्षचतुष्के चन्द्रो मारयति किमत्र गणितेन ॥ १०३ ॥ लग्नाधिपतेश्चन्द्रो मरणपदस्थोऽतिकृष्णतां यातः । क्रूरैः सकलैदृष्टो न शुभैः सर्वैस्त्रिभिस्तु मारयति ॥ १०४॥ लग्नाधिपतिः पापः शशिनोंशे रिःफगो यदि च चन्द्रात् ।
रैर्विलोक्यमानो मारयति शिशुं नवभिरब्दैः ॥ १०५ ॥ दर्शनभागे सौम्याः क्रूराश्चादृश्यके प्रसवकाले । राहुर्लग्नोपगतो यमक्षयं नयति पञ्चभिवः ।। १०६॥ राहुः सप्तमभवने शशिसूर्यनिरीक्षितो न शुभदृष्टः । दशभिर्द्वाभ्यां सहितैरब्दैर्जातं विनाशयति ॥ १०७॥
१ गुरुशुक्रसमन्विते. २ युषं प्रायः. ३ स्थाने. ४ रविशशियुक्तः. ५ कुजाः शत्रुगृहे.
Aho ! Shrutgyanam