________________
दशमोऽध्यायः ।
रविर्यदा चन्द्रमसस्त्रिकोणस्थानमाश्रितः । विंशति दिवसान् जीवेत्तदा व्याधिभयादितः ॥ ८१ ॥ होराष्टमस्थितः सूर्यः सौरभौमनिरीक्षितः । यः पुमान् प्राप्नुयाद्व्याधिं न स जीवेद्विपद्यते ॥ ८२ ॥ होरायां कण्टके भौमो भवेद्यस्य प्रजायतः। न च केन्द्रगतो जीवो जायते मृत एव सः ॥ ८३ ॥ अथ होरागतः सूर्यो न च केन्द्रे बृहस्पतिः । निधने वा परः कश्चित् जातमात्रो विनश्यति ॥ ८४ ॥ होरायां कण्टके चन्द्रो न च केन्द्रे बृहस्पतिः। निधने वा परः कश्चित् जातमात्रो विनश्यति ॥ ८५॥ द्रेक्काणजामित्रगतो यस्य स्याहारुणग्रहः । होरागतः शशाङ्कश्च सद्यो हरति जीवितम् ॥ ८६ ॥ ग्रहाः समेयुर्वहवो निधने यस्य जन्मनि । मासं वा सप्तरात्रं वा तस्यायुः समुदाहृतम् ॥ ८७ ॥ शनैश्चरश्च होरायां निधने च महीसुतः । न च देवगुरुः केन्द्रे मृतगर्भः प्रसूयते ॥ ८८॥ यः प्राग्विलग्ने द्रेक्काणस्तत्समानो यदा ग्रहः । भवेत्रिकोणगाः पापास्तत्समानफलो भवेत् ॥ ८९ ॥ सौरे व्याधिमवाप्नोति मरणं धरणीसुते । सूर्ये स्याद्व्याधिवैकल्यं मरणं नात्र संशयः ॥ ९० ॥ अथ होरागतो भौमः केन्द्रस्थश्च भृगोः सुतः । स वै मरणमाप्नोति होरायां पुनरागते ॥९१॥ गुरुस्त्रिकोणे होरायां होरेशश्च महीसुतः । तस्यान्यतरकेन्द्रस्थः सद्यो जीवितनाशनः ॥ ९२ ॥ न नैधने य॒हः कश्चित् पापो होरागतोऽथवा । केन्द्रे वान्यतरे जीवो जीवत्यष्टशतोत्तरम् ॥ ९३ ॥ न केन्द्रे कश्चिदानेयो न त्रिकोणे न नैधने । गुरुशुक्रौ च केन्द्रस्थौ जीवेदष्टशताधिकम् ॥ ९४ ॥ १ विपत्स्यते. २ पापकः. ३ गुरुः. ४ केन्द्रेष्वन्यतमे.
Aho! Shrutgyanam