________________
सारावली ।
कुर्यादृष्टिविकारं नानारोगैर्ध्रुवं जन्तोः ॥ ६७ ॥ एकादशे तृतीये होरायां पापसंयुते शशिनि । कर्णविकलो नरः स्यात्पापग्रहवीक्षिते सद्यः ॥ ६८ ॥ नवमे पञ्चमराशौ पापग्रहवीक्षितौ ग्रहौ स्याताम् । श्रोत्रोपघातमतुलं कुर्यातां जातमात्रस्य ॥ ६९ ॥ नवमे दक्षिणकर्णं वामं वै पञ्चमे ग्रहो हन्यात् । अत्रैव सौम्यभे वा शुभदृष्टे वा शुभं वाच्यम् ॥ ७० ॥ राशौ होरान्तरं प्राप्य यो यस्मिन् व्याधिमाप्नुयात् । तस्य होराप्रसवे चन्द्रस्थानं च यद्भवेत् ॥ ७१ ॥ सव्यापसव्यभागे योगमथैव ग्रहास्तु संप्राप्ताः । कुर्युर्नृणां च चिह्नं व्यङ्गभयं पापवीक्षिताः सौम्याः ॥ ७२ ॥ विदित्वा त्रितयं तत् कृत्स्नस्य तु विशेषतः । शुभाशुभौ तु विज्ञेयौ ग्रहसंयोगकारणौ ॥ ७३ ॥ चन्द्रादित्यौ तृतीयस्थौ मीनक्षेत्रं स यस्य तु । व्याधिं तत्र विजानीयात् त्रिरात्रं तस्य जीवितम् ॥ ७४ ॥ अतस्तृतीये नक्षत्रे समस्ते व्यस्तगेऽपि वा ।
aौ रात्रिं परां जीवेच्चन्द्रे दशममाश्रिते ॥ ७५ ॥ सहितौ चन्द्रजामित्रे यस्याङ्गारकभास्करौ । जातस्य तस्य हि तदा भवेत्सप्ताहजीवितम् ॥ ७६ ॥ चतुरश्रस्थिताः पापा वामदक्षिणगा यदा । तदा यो व्याधिमाप्नोति दशरात्रं स जीवति ॥ ७७ ॥ त्रिकोणे दक्षिणे सूर्यचन्द्रो वामे यदा भवेत् । यस्तदा लभते व्याधिं द्वादशाहं स जीवति ॥ ७८ ॥ त्रिकोणस्थो यदा चन्द्रश्चतुरश्रेऽथ भास्करः । तदा दुर्व्याधिना पुत्रस्त्रिरात्रं नातिवर्तते ॥ ७९ ॥ यदा होरा चतुर्थस्थश्चन्द्रः षष्ठस्थितो रविः । अष्टादशाहं च नरस्तदा व्याधिसमन्वितः ॥ ८० ॥ १ तस्माच्च २ क्षेत्रस्य. ३ भास्करौ.
३०
Aho! Shrutgyanam