________________
दशमोऽध्यायः। प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य ॥ ५४॥ जन्माष्टसप्तषष्ठद्वादशसंस्थेषु चैव पापेषु । माता सुतेन सार्धं म्रियते नास्त्यत्र सन्देहः ॥ ५५॥ जीवति माता म्रियते सूनुः षष्ठाष्टंमेषु पापेषु । जन्माष्टसप्तमेषु च जीवति सूनुम्रियेत तन्माता ॥५६॥ वको वा सौरो वा द्वादशसंस्थो नयनहन्ता । दक्षिणनयनं सौरो वाममथाङ्गारको हन्यात् ॥ ५७॥ युगपच्चन्द्रादित्यौ द्वादशभे विष्ठितौ ग्रहौ स्याताम् । कुरुतः प्रसूतमन्धं पापः षष्ठेऽथवा निधने ॥ ५८॥ अथवाप्यन्यतरयुते द्वादशभे वापि जायमानस्य । अत्रापि हरेन्नयनं दक्षिणमर्कः शशी सव्यम् ॥ ५९॥ स्वर्भानुनोपसृष्टा यदि होरा दिनकरश्च जामिने । जातस्तत्र मनुष्यो निःसन्दिग्धं भवत्यन्धः ॥ ६०॥ धनराशौ द्वादशभे चन्द्रः सूर्यश्च विष्ठितो यत्र । तत्रापि भवत्यन्धो यद्यष्टमषष्ठयोः पापौ ॥ ६१॥ रजनिकरः षष्ठगतो निधने सूर्यों रवेः सुतस्तु शुभे । वक्रः कुटुम्बराशावत्राप्यन्धो भवेज्जातः ॥ ६२॥ रुधिराङ्गसौरयुक्तश्चन्द्रो निधनेऽथवाऽपि षष्ठे वा । पित्तश्लेष्मविकारैदृष्टिं हन्यादशुभयुक्तः ॥ ६३॥ दक्षिणमष्टमसंस्थः सव्यं तु हरेत्समाश्रितः षष्ठम् । सौम्यैर्न वीङ्क्षिततनुः सद्यो नहरेत्तु पश्चाद्वा ॥ ६४ ॥ दिनकरसुतेन सहितो निधने चान्ये समाश्रितश्चन्द्रः । वातश्लेष्मविकारैदृष्टिं हन्यादशुभदृष्टः ॥ ६५ ॥ निधने दक्षिणनयनं त्यागे सव्यं हरेत्तु नियमेन । सौम्यैस्तु दृश्यमाने न हरेदथवा हरेत्पश्चात् ॥ ६६ ॥ एतेनैव तु विधिना सौरारदिवाकराश्रितश्चन्द्रः । १ षष्टान्त्यगेषु. २ निष्टितो. ३ भवेदन्धः. ४ निष्ठितो. ५ सुतो धनभे. । निरीक्षित. ७ नयनं हरेद्धरेत्पश्चात्. ८ न्यतरमाश्रितश्चन्द्रः. ९ मानो.
Aho ! Shrutgyanam