________________
२८
‘सारावली। लग्नान्त्यनवमनैधनसंयुक्ताश्चन्द्रसूर्यसौराराः । जातस्य वधकृतः स्युः सद्यो गुरुणा न चेदृष्टाः ॥ ४१ ॥ लग्ने चन्द्रेऽर्के वा पापा बलिनस्त्रिकोणनिधनेषु । . सौम्यैरदृष्टयुक्ताः सद्यो मरणाय कीर्तिता यवनैः ॥ ४२ ॥ शुक्रो रविशनिसहितो मारयति नरं सदा प्रसवकाले । दृष्टोऽपि देवगुरुणा नवभिवन सन्देहः ॥४३॥ यत्रस्थस्तत्रस्थो रुधिरार्कशनैश्चरेक्षितश्चन्द्रः। जननीमृत्युं कुर्यान्नतु सौम्यनिरीक्षितः सद्यः ॥ ४४ ॥ रुधिरशनैश्चरदृष्टो दिवसकरो दिवसजन्मनि तु यस्य । पापयुतो वा हन्यात् पितरं निःसंशयं जातः ॥ ४५ ॥ रहितो बुधगुरुशुऊर्जन्मनि रुधिराङ्गसौरसहितोऽर्कः । कथयति पितरमतीतं पितुरपि च शरीरकतारम् ॥४६॥ पापद्वयमध्यगतो दिवसकरो दिवसजन्मनिरतस्य । पापयुतो वा हन्यात् पितरं निःसंशयं जातः ॥ ४७॥ सूर्याद॑ष्टमराशौ यदि युक्तौ सौरलोहितौ प्रसवे । सौम्यादृष्टौ निधनं कुर्यातां सद्य एव पितुः ॥ ४८॥ पापग्रहसंयुक्तश्वरराशिगतो दिवाकरः प्रसवे । विषशस्त्रजलान्मृत्युं कथयत्यल्पायुषं पितरम् ॥४९॥ चन्द्रादष्टमराशौ नवमे वा सप्तमेऽपि वा पापाः । सर्वे तत्रान्यतमे हन्युर्जातं सह जनन्या ॥ ५० ॥ चरराशिगते सूर्ये दिनजन्मनि वीक्षिते कुपुत्रेण । कथयति विदेशयातं जातस्य शरीरकर्तारम् ॥ ५१॥ चरराशिगतं सौरं यद्यर्को रात्रिजन्मनीक्षेत । अत्रापि विदेशस्थं कथयति पितरं प्रसूतस्य ॥५२॥ रुधिरसहितस्तु सौरश्वरभवने रात्रिजन्मनिरतस्य । कथयति पितरमतीतं परदेशे नात्र सन्देहः ॥५३॥ यत्रस्थतत्रस्थः स्वपुत्ररुधिराङ्गसङ्गतः सूर्यः । १ वधं कुर्युः. २ सौम्यैरमिश्रदृष्टाः. ३ सूर्यात्सप्तम. ४ तु पुत्रेण.
Aho ! Shrutgyanam