________________
२७
दशमोऽध्यायः। मरणं शिशोः प्रयच्छति वर्षे नवमे न सन्देहः ॥ २७ ॥ होरेश्वरस्तु मृत्यौ पापैः सकलैश्च दृश्यते बलिभिः । मासि चतुर्थे मरणं जातस्य करोति मुनिवाक्यम् ॥ २८॥ जन्माधिपतिः सूर्यः स्वपुत्रसहितोऽष्टमे भवति राशौ ।
वर्षे राशिप्रमितैमरणाय सितेन सन्दृष्टः ॥ २९ ॥ व्ययाष्टषष्ठोदयगे शशाङ्के पापेन युक्ते शुभदृष्टिहीने । केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैर्वियोगं व्रजति प्रजातः ॥ ३०॥
चक्रस्य पूर्वभागे पापाः सौम्यास्तथेतरे चैव ।। वृश्चिकलग्ने जाता गतायुषो वज्रमुष्टियोगेऽस्मिन् ॥ ३१ ॥ क्षीणे शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा । भवति विपत्तिरवश्यं यवनाधिपतेर्मतं चैतत् ॥ ३२॥ राश्यन्तगतैः पापैः सन्ध्यायां तुहिनरश्मिहोरायाम् । मृत्युः प्रत्येकस्थैः केन्द्रेषु शशाङ्कपापैश्च ॥ ३३॥ द्यूनचतुरश्रसंस्थे पापद्वयमध्यगे शशिनि जातः । विलयं प्रयाति नियतं देवैरपि रक्षितो बालः ॥ ३४ ॥ पापद्वयमध्यगते होरासप्ताष्टमस्थिते चन्द्रे । सौम्यैरबलैंदृष्टे जातो म्रियते ध्रुवं ह्यत्र ॥ ३५॥ यूनाष्टमगैः पापैः क्रूरग्रहवीक्षितैः सह जनन्या । म्रियते शुभसंदृष्टैः सत्यस्य मताद्वदेद्व्याधिम् ।। ३६ ॥ ग्रहणोपगते चन्द्रे सक्रूरे लग्नगे कुजेऽष्टमगे । मात्रा साध म्रियते चन्द्रवदर्के च शस्त्रेण ॥ ३७॥ क्षीणे शशिनि विलग्ने कण्टकनिधनाश्रितैस्तथा पापैः । सोम्यादृष्टे मृत्युः सद्यः सत्यस्य निर्देशः ॥ ३८ ॥ द्यूनगतेऽर्के लग्ने यमे कुजे वा विपर्यये वाऽपि । अन्यतरयुते वेन्दावशुभैदृष्टेऽचिरान्मृत्युः ॥ ३९ ॥ होरानिधनास्तगतैः पापैः क्षीणे व्ययस्थिते चन्द्रे ।
जातस्य भवेन्मरणं सद्यः केन्द्रेषु चदशुभाः ॥ ४० ॥ .. १ मूर्ती. २ पतेर्न सन्देहः. ३ वेलायां. ४ संस्थैः. ५ बालः. ६ निर्देशातू. ७ व्यवस्थिते. ८ चेन्न.
Aho! Shrutgyanam