________________
सारावली।
लग्ने यद्रेक्काणा निगडाहिविहङ्गपाशधरसंज्ञाः । मरणाय सप्तवः क्रूरयुता न स्वपतिदृष्टाः ॥ १४ ॥ राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापैः । वर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः ॥ १५ ॥ पापास्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताश्च । सूर्योदये प्रसूतः सद्यः प्राणांस्त्यजति जन्तुः ॥ १६ ॥ अंशाधिपजन्मपती लग्नपतिश्चास्तमुपगता यस्य । संवत्सरैस्तु मरणं निर्व्याजं कतिपयैरेव ॥१७॥ राशिप्रमितैर्वारयति विलग्नपो रिपुस्थाने । मासै,क्काणपतिर्दिवसैरंशाधिपो हन्ति ॥ १८ ॥ मारयति षोडशाहाच्छनैश्चरः पापवीक्षितो लग्ने । संयुक्तो मासेन तु वर्षाच्छुद्धस्तु मारयति ॥ १९ ॥ क्षीणशरीरश्चन्द्रो लग्नस्थः क्रूरवीक्षितः कुरुते । स्वर्गगमनं हि पुंसां कुलीरगोऽजान्परित्यज्य ॥२०॥ वर्षान्मारयति शशी षष्ठाष्टमराशिसंस्थितो लग्नात् । सद्यः क्रूरैदृष्टः सौम्यैरब्दाष्टकाच्चैव ॥२१॥ अशुभशुभैः सन्दृष्टे वर्षचतुष्केण निर्दिशेदन्तम् । अनुपातः कर्तव्यः प्रोक्ता(नैर्ग्रहैदृष्टे ॥ २२ ॥ सौम्याः षष्ठाष्टमगाः पापैर्वकोपसङ्गतैदृष्टाः। मासेन मृत्युदास्ते यदि नै शुभैस्तत्र सन्दृष्टाः ॥२३॥ लग्नाबादशधनगैः क्रूरैम्रियते च रन्ध्ररिपुयुक्तैः । शुभसम्पर्कमयातैर्मासे षष्ठेऽष्टमे वाऽपि ॥ २४ ॥ लग्नाधिपजन्मपती षष्ठाष्टमरिःफगौ प्रसवकाले । अस्तमितौ मरणकरौ राशिप्रमितैर्वदेद्वषैः ॥ २५॥ होराधिपति ने पापजितो मरणमेव विदधाति । मासेन जन्मनाथस्तद्वच्चन्द्रो न यदि शुभदृष्टः ॥ २६ ॥ चन्द्रः कुजरवियुक्तः स्वसुतस्थाने न चापि शुभदृष्टः । १ अशुभैः शुभैश्च दृष्टो. २ न्यूनग्रहैदृष्टः. ३ तेन शुमैस्तु. ४ रविदृष्टः.
Aho ! Shrutgyanam