________________
दशमोऽध्यायः ।
दशमोऽध्यायः। आयुर्ज्ञानाभावे सर्वं विफलं प्रकीर्तितं यस्मात् । तस्मात्तज्ज्ञानार्थे रिष्टाध्यायं प्रवक्ष्यामि ॥१॥ ओजे स्थिताः पुमांसः शुक्लेऽहनि सूरिभिः समाख्याताः । युग्मभवनेषु सर्वे कृष्णे निशि योषितो बलिनः ॥ २॥ त्रिविधमिह शास्त्रकारा नियममनियमं च योगजं प्राहुः । योगसमुत्थं तावद्वक्ष्ये पश्चात्तु परिशेषौ ॥ ३॥ बृहस्पतिभौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः । अब्दै स्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम् ॥ ४॥ वक्री शनिभौमगृहं प्रपन्नश्चन्द्रेऽष्टषष्ठेऽथ चतुष्टये वा। कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ ५ ॥ भास्करहिमकरसहितः शनैश्चरो मृत्युदः प्रसवकाले । वर्षेनैवभिर्यातैरित्याह ब्रह्मशौण्डाख्यः ॥ ६ ॥ भौमदिवाकरसौराश्छिद्रे जातस्य भौमगृहे । म्रियतेऽवश्यं स नरो यमकृतरक्षोऽपि मासेन ॥ ७॥ एकः पापोऽष्टमगः शुक्रगृहे पापवीक्षितो वर्षात् । मारयति नरं जातं सुधारसो येन पीतोऽपि ॥ ८ ॥ रविशशिभवने शुक्रो द्वादशरिपुरन्ध्रगैः शुभैः सर्वैः । दृष्टः करोति षभिवमरणं किमत्र चित्रं हि ॥ ९ ॥ कर्कटधामनि सौम्यः षष्ठाष्टमसंस्थितो विलग्नात् । चन्द्रेण दृष्टमूर्तिर्वर्षचतुष्केण मारयति ॥ १०॥ . तीव्रफलराजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु । जायन्ते खलु कुलजा रिष्टं तेषु प्रसूतानाम् ॥ ११ ॥ केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन्प्रसूयते यो हि । मासद्वयेन मरणं विनिर्दिशेत्तस्य जातस्य ॥ १२ ॥ गगनस्थो दिवसकरः पापैर्बहुभिर्निरीक्षितः सद्यः । मारयति भौमधामनि शनिभे च न संशयो भवति ॥ १३ ॥
१ नियतमनियतं च. २ यस्य शुक्रगृहे. ३ रन्ध्रगः. ४ षष्ठाष्टव्ययगतो. ५ बलिभिः.
३ सारा.
Aho! Shrutgyanam