________________
२४
सारावली । एकांशस्थितयोर्वा यमारयोस्त्यज्यतेऽथवा मात्रा । लग्नात्सप्तमभवने भौमे शनिवीक्षिते नियतम् ॥४०॥ यादृक्पश्यति सौम्यस्तत्तुल्यगुणं सुतः समाधत्ते । पितृजननीसादृश्यं रवेः शशाङ्कस्य बलयोगात् ॥४१॥ सिंहाजगोभिरुदये जातो नालेन वेष्टितो जन्तुः । लग्ने कुजेऽथ सौरे राश्यंशसमानगात्रश्च ॥४२॥ भौमशनिद्रेक्काणे पापे लग्ने स्थिते शशियुते वा । व्येकादशगैः सौम्यैरभिवेष्टितको भुजङ्गेन ॥४३॥ सूर्यश्चतुष्पदस्थः शेषा द्विशरीरसंस्थिता बलिनः । कोशैर्वेष्टितदेहौ यमलौ खलु संग्रजायते ॥४४॥ लग्ननवभागतुल्या मूर्तिबलसंयुताद्रहाद्वापि । नवभागाद्वर्णोक्तिः शशियोगात्तत्र सूतस्य ॥ ४५ ॥ बहवो यदि बलयुक्ता मिश्रा मूर्तिस्तदा वाच्या । कुलजातिदेशपुरुषान् बुद्ध्वाऽऽदेशं समादिशेत्तज्ज्ञः ॥४६॥ त्रिंशद्भागे भानुर्ग्रहस्य यस्य स्थितो भवति । तत्तुल्याः प्रकृतिः स्यादेवं मुनयोऽध्यवस्यन्ति ॥४७॥ तत्कालसुहृदरित्वं बलं च नीचोच्चमध्यसंश्रितताम् । ज्ञात्वा ग्रहस्वभावांस्तेभ्यः संचिन्त्यमन्यदपि ॥४८॥ क्षीणे शशिनि सपापे माता म्रियते पिता रवौ तद्वत् । बलिभिदृष्टे मित्रैर्व्याधिः सौम्यैः शुभं भवति ॥४९॥ विपुलविमलमूर्तिः स्वोचगो वा स्वराशौ
गुरुसितयुत इन्दुर्बोधनेनानुदृष्टः । अतिशयशुभदाता पञ्चमे वाऽपि मातुः
पितुरपि खलु तद्वत् भास्करः सर्वदैव ॥ ५० ॥ इति कल्याणवर्मविरचितायां सारावल्यां सूतिकाध्यायो नवमः ॥
१ एकांशावस्थितयोर्यमारयोस्त्यज्यते मात्रा. २ सुतम्. ३ सुते. ४ प्रसूयेते. ५ वर्ण. ६ यस्येह संस्थितो.
Aho ! Shrutgyanam